________________
१७७
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः १७७ [समीक्षा]
सङ्गत अर्थ में 'अजर्यम्' शब्द की सिद्धि निपातन से दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है – “अजयँ सङ्गतम्' (अ० ३।१।१०५) । अत: उभयत्र समानता ही है ।
[रूपसिद्धि]
१. अजर्यम् । नञ् + जृ + य + सि । न जीर्यति । ‘जृष् वयोहानौ' (३।१८) धातु से सङ्गत अर्थ में प्रकृत सूत्र द्वारा 'य' प्रत्यय, गुणादेश, नसमास तथा विभक्तिकार्य ।।९५८।
९५९. नाम्नि वदः क्यप् च [४।२।२०] [सूत्रार्थ)
नाम के उपपद में रहने पर 'वद व्यक्तायां वाचि' (१।६१५) धातु से 'क्यप्' तथा 'य' प्रत्यय होता है ।।९५९।
[दु० वृ०]
नाम्न्युपपदे वदः क्यप् भवति, चकाराद् यश्च । ब्रह्मणो वदनम् ब्रह्मोद्यम्, ब्रह्मवद्यम् । ब्रह्मणा उद्यते कथा ब्रह्मोद्या, ब्रह्मवद्या, ब्रह्मवद्या । नाम्नीति किम् ? वाद्यम्, अनुवाद्यम् ॥९५९।
[दु० टी०]
नाम्नि० । क्यप् चेति । चकारेण यप्रत्ययोऽनुकृष्यते, न चानुकृष्टत्वादुत्तरत्र प्रवर्तते ।।९५९।
[क० च०]
नाम्नि० । ननु अनुवाद्यमिति कथं प्रत्युदाहरणम्, अनुशब्दस्य नामत्वात्, नैवम् । कृत्प्रत्ययविधावुपसर्गाणां नामत्वं नास्ति । “आतोऽनुपसर्गात् कः” (४।३।४) "उपसर्गे त्वातो डः" (४।२।५२) इत्यत्रोपसर्गग्रहणेन ज्ञाप्यते इति हेमः । श्रीपतेस्तु "सत्सूद्विष०" (४।३।७४) इत्यत्र तथा चोक्तम् –
कृद्विधावुपसर्गाणां नामत्वेनापरिग्रहः। उपसर्गेऽपीति लिङ्गं सदादिभ्यः क्विपो विधौ।।
इति मतम् ।।९५९। [समीक्षा]
'ब्रह्मोद्यम्, ब्रह्मवद्यम्' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में क्यप् - य (यत् ) प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है – “वदः सुपि क्यप् च' (अ०३।१।१०६) । अत: प्राय: उभयत्र समानता ही है ।