________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
[दु० टी० ]
तव्या० । कृत्सञ्ज्ञकावित्यधिकारसम्बन्धाविर्भावार्थं मन्दधियां सुखप्रतिप्रत्त्यर्थम्, एवं सर्वत्र प्रतिपत्तव्यम् । कर्तव्यमित्यादि । सकर्मकस्यापि करोतेरविवक्षितकर्मत्वाद् भावे तव्यादिप्रत्ययान्तस्य नपुंसकत्वम्, कर्मणि वाच्यलिङ्गत्वम् । तव्यादेरविशिष्टसम्बन्धान्नपुंसकत्वमुदाहरणभेदेन, वृत्तौ भेदश्च दर्शित इति । केलिम इत्यादि । धातोरिति सम्बन्धः । भिद्यन्ते माषाः स्वयमेवेति कृत्यसंज्ञायां न प्रयोजनम्, अभिधानमेवेदृशमिति । अन्य आह- गुणाभिधानमेतत् तस्यान्वाख्यानं क्रियाकारकसम्बन्धोपायेन शक्य: पक्तुम्
पचेलिमा माषा भवता भवतो वेति कर्तृत्वविवक्षया तृतीया, सम्बन्धविवक्षया षष्ठी कृत्यत्वात् कर्मणि च स्याद् इत्यभिधानात् सिद्धिरिति भावः । वास्तव्य इत्यादि । वसतीति वास्तव्यः, वास्तुशब्दो वा नाम वास्तुनि भवो वा वास्तव्य इति दिगादिपाठाद् यः इति तद्धितव्युत्पत्तिवादीत्याह । वास्तव्यं वटुनेति भावेऽकर्मकत्वात् ॥ ९४८॥ [वि० प० ]
तव्या० । केलिम इत्यादि । भिद्यन्ते स्वयमेव । एवं पच्यन्ते स्वयमेव, तदेतन्न वक्तव्यम्, अभिधानमेवेदृशम् । न च कृत्यसंज्ञायां प्रयोजनमस्तीति भावः ॥ ९४८ [क० च०]
तव्या० । अनीय एव न त्वनीयः कर्मप्रवचनीय इति निर्देशादिति हेमः । वृत्तौ कृत्सञ्ज्ञकाविति यदुक्तं तत् कृदधिकारस्योत्तरत्राविर्भावार्थं न तु कृत्संज्ञायाः प्रयोजनमस्तीति "ते कृत्याः " ( ४।२।४६ ) इति विशेषसञ्ज्ञया भावकर्मणोर्विधानाद् अकर्मकस्यापि धातोरविवक्षितिकर्मत्वाद् भावे तव्यानीयावित्युदाहृतं कर्तव्यमिति । तव्यादिप्रत्ययान्ताद् भावे नपुंसकमेकवचनं च कर्मणि वाच्यलिङ्गत्वाद् द्विवचनादिकं च । तर्हि कथं 'पाकौ, पाका:' इति भावे पुंल्लिङ्गं द्विवचनादिकं च ? सत्यम् । 'कृदभिहितो भावो द्रव्यवत् प्रकाशते' ( व्या०प० पा० १११ ) इति न्यायाद् घञादौ द्विवचनादिकम् । तथा चोक्तम्
1
क्रियायाः साध्यतावस्था सिद्धता च प्रकीर्तिता ।
1
१६५
―—
सिद्धता द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्विधिम् ।। इत्यादि । घञादौ द्विवचनादिकं पुंस्त्वं तु स्वभावात् । यद् वा नपुंसकं युटैवाघ्रातं स्त्रीलिङ्गं च "स्त्रियां क्तिः " ( ४/५/७२ ) इति क्तिना, पुंस्त्वमस्य सकर्मकादकर्मकत्वविवक्षायां भावे प्रत्यये आख्याते पश्चात् कर्मानुसन्धानं नास्ति 'भावाख्यातं धौव्यात्' इति नियमात्, कृति तु धात्वर्थकृता व्याप्तिरस्ति पश्चात् कर्मानुसन्धानमस्ति । यथा कां दिशं मया गन्तव्यमिति । ननु परमते केलिमस्य कृत्यसंज्ञया भावे विधानम्, तथा " अवश्यमः कृत्ये " मस्य लोप इति अवश्यपचेलिमा भवति । स्वमते कथम् ? सत्यम्, ‘अवश्यपचेलिमाः' इत्यत्र वर्णनाशः, न च 'अवश्यमः कृत्ये' इत्यादि सूत्रमस्ति रूढ इत्युक्ते वा कोऽत्र दोषः || ९४८ ।
-
-