________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः ८. हेयात्। हा + यात् – आशी:। 'ओ हाक् त्यागे' (२७१) धातु से ‘यात्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ५६९।
५७०. अन उस् सिजभ्यस्तविदादिभ्योऽभुवः [३।४।३०] [सूत्रार्थ]
अभ्यस्त, विदादि धातु तथा सिच् से परवर्ती अन् प्रत्यय के स्थान में 'उस्' आदेश होता है 'भू' धातु को छोड़कर।। ५७०।
[दु० वृ०]
सिजभ्यस्तविदादिभ्यो भूवर्जितेभ्यः परस्यान उसादेशो भवति। सिच: – अकार्षुः, उदगुः, अदुः। परस्य न लुग्लोप इति। अभ्यस्तात्- अददुः, अजुहवुः, अनेनिजुः । विदादयः -- 'विद ज्ञाने' (२।२७)। आदन्तद्विष:- अविदुः, अरुः, अलुः, अद्विषुः। गणकृतमनित्यमिति वा स्यात्। ह्यस्तन्यन एवार्थात् – अविदन्, अरान्, अलान्, अद्विषन्। अभुव इति किम् ? अभूवन्।। ५७० ।
[दु० टी०]
अन० । उदगुरिति। "इणो गा" (३।४।८४) इति। “आकारस्योसि" (३।६।३७) इत्यालोपः। एवम् अदुरिति। 'डु दाञ् दाने' (२८४)। "इण्स्था०" (३।४।९३) इत्यादिना सिचो लुकि परस्य प्रत्ययलोपलक्षणम् अस्तीति सिच एवोदाहरणमित्याह - परस्येत्यादि। अददुरिति। 'डु दाञ् दाने' (२।८४)। अभ्यस्तत्वान्नित्यमुस् भवति न विदादिलक्षणो विकल्पः। एवम् अदरिद्रुः, अदधुरिति। विदादीत्यादिशब्दो व्यवस्थावचन इत्याह-'विद ज्ञाने' (२।२७) इत्यादि। 'अभुव' इत्यत्र वाक्यान्तरस्य न भवति प्रतिषेध इति मतान्तरमेवेति। अबोभुवुरिति । एवं सति वकारागमो नास्तीति उवादेशः।। ५७० ।
[वि० प०]
अन: । अकार्षुरिति। “सिचि परस्मै स्वरान्तानाम्' (३।६।६) इति वृद्धिः । उदगुरिति। उत्पूर्वः ‘इण् गतौ' (२। १३), "इणो गा'' (३।४।८४) इति गादेशः। अदुरिति। 'डु दाञ् दाने' (२८४)। उभयत्रापि "इणस्थादा०" (३।४।९३) इत्यादिना सिचो लुक्। "आकारस्योसि'' (३।६।३७) इत्याकारलोपः। ननु कथमिह उसादेशः, नित्यत्वात् सिचो लुका भवितव्यम्। न चात्र प्रत्ययलोपलक्षणमस्ति लुग्लापत्वादित्याह – परस्येत्यादि। परस्य प्रत्ययस्य कार्यं प्रति लुग्लोपपरिभाषा नोपतिष्ठते इत्यतः प्रत्ययलोपलक्षणमवधार्यते। कथमेवमिति चेदच्यते – 'लग्लोपे न प्रत्ययकृतम्' (कलाप० २२२। ६९) इत्यत्र प्रत्यये परे प्रकृतेर्यत् कार्य तल्लुग्लोपे न भवति, परस्य तु प्रत्ययस्य स्यादेवेति। अभ्यस्तेति सर्वत्र जुहोत्यादित्वाद् द्विवचनम्, “जुहोतेरभ्यस्तानामसि' (३।४।६१) इति गुण: । विदादीत्यादिशब्दस्य व्यवस्थावाचित्वादित्याह – 'विद ज्ञाने' (२।२७) इत्यादि। अभ्यस्तेभ्यो विदादिभ्यश्चादादित्वादनो लुक्। ह्यस्तन्यन एवार्थादिति अद्यतन्या: सिच्