________________
३६
कातन्त्रव्याकरणम्
[दु० वृ०]
सन्ध्यक्षरान्तानां धातूनामविकरणविषये आकारो भवति। धेट – धाता। ग्ले - ग्लाता। म्लै – म्लाता। दो-दाता। सुग्ल:, सुम्लः। “उपसर्गे त्वातो ड:' (४। २ । ५२) स्यात्। अन्तग्रहणं धातुसंज्ञाकाले सन्ध्यक्षरार्थम् । तेन चेता, स्तोता। अविकरण इनि किम् ? ग्लायति, म्लायति।। ५५९।
[दु० टी०]
सन्ध्यः। सन्ध्यक्षरमेवान्ने येषामिति बहुव्रीहिः। ननु किमर्थमन्तग्रहणं 'येन विधिस्तदन्तस्य' (कात० प० ३) इति लभ्यते। धानो: प्रकृतस्य विधिभाज: सम्भवाद् अवश्यमिह धात्वधिकार आश्रयणीयः। ‘गोभ्याम्, नौभ्याम्' इत्यत्र मा भूदिति। ननु राय आत्वं ज्ञापकम्, तर्हि नियमार्थमेव स्यात् । रायो व्यञ्जनादावेवात्वमिति। तथा “अमशसोरा" (२।२।३४) इत्यपि गोरात्त्वबाधनार्थं शसि नियमार्थ स्यात्। न च धातुना सन्ध्यक्षराणि विशिष्यन्ते। धातोः सन्ध्यक्षराणामिति कुत: ढोकृ, त्रौकृ' (१।३३२, ३३१) – ‘ढौकिता, चौकिता' इत्यत्रात्वस्य प्राप्ति:, विशेषणविशेष्यभावस्य कामचारत्वात् , तर्क्न्तग्रहणमुपदेशसन्ध्यक्षरान्तत्वप्रतिपत्त्यर्थम्। अनुशब्दोऽत्रावयववचनः, अवयवश्चारम्भकः, स च धातुसंज्ञायामवति। यद्येवं 'चता, स्ताता' इत्यत्राप्यारम्भकत्वं न विहन्यते, तन विना धातुत्वस्याप्रतीते: ? सत्यम्, सन्ध्यक्षरं च तदन्तं चेति कृत्वा तदन्तविधिस्तेन सर्वदा सन्ध्यक्षरान्तानामिति स्थितम् । न च वक्तव्यम्, परनिमित्तकस्य सन्ध्यक्षरस्यात्वं न भवति, यदयं “स्मिजिक्रीजामिनि'' (३।४।२४) इत्यात्वं शास्ति, नैवं नियमार्थं सम्भाव्यते इति एषामिन्यवात्वमित्याह - अन्तग्रहणमित्यादि। “लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (कात० प० ७५) इति चेत्, तदान्तग्रहणं सुखप्रतिपत्त्यर्थम्।
नविकरणोऽविकरण इति पर्यदासेऽपि न विद्यते विकरणो यस्मिन्निति बहवीहावपि 'सुग्ल:, सुम्ल:' इति अनिर्दिष्टप्रत्यये परे आत्वं भवति विषयसप्तमीत्वात्। तथा 'जग्ले, मम्ले' इत्यभ्यासस्येकारो न भवति। धातुनिर्देशाश्च न विरुध्यन्ते शाच्छासाह्वा इत्यादयः प्रसज्यप्रतिषेधेऽपि विधेरनिमित्तत्वाद् विषयतया सर्व युक्तम् इत्युक्तम् अविकरणविषय इति। अत्र च लिङ्गं "हावामश्च' (४।३।२) इति कबाधनार्थमणं यत् शास्ति । अननीति सिद्धेऽविकरणग्रहणं विभक्त्यन्निवृत्त्यर्थम्, अन्यथा अण्प्रत्यये बुद्धिस्थे भविष्यति प्रतिषेध: स्यात्। 'पै ओ वै' (१।२६१)-अपासिषुः। 'धेट्' (१।२६४) - अधासिषुरिति सिचः परस्यान उस्।। ५५९।
[वि० प०]
सन्ध्य० । “उपसर्गे त्वातो डः" (४।२।५२) स्यादिति। एतेन ‘अविकरणे' इति विषयसप्तम्याः फलं दर्शितम्। तथाहि बुद्धिस्थे प्रत्यये आकारे कृते सति डप्रत्ययो युज्यते। परसप्तम्यां तु डप्रत्यये सत्याकारः, आकार च सति डप्रत्यये इति