________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४७५
षत्वभूत इति किम् ? तिष्ठासति, सुषुप्सति । कथं सोषुपिषते ? चेक्रीयिते षत्वं पश्चात् सन । अर्थान् प्रतीषिषति इति सनोऽवयवस्यानभ्यासस्थानिमित्तात् षत्वं स्यादेव । स्विदिस्वदिसहीनामिनन्तानां नेष्यते – सिस्वेदयिषति, सिस्वादयिषति, सिसाहयिषति। तेनैवापिशब्देनान्यदपि व्यभिचार्य्यते । तथा सिचश्चक्रीयिते न स्यात् - सेसिच्यते । सुनोते: स्ये-अभिसोष्यते । सेधतेर्गतौ - अभिसेधयति गाम् । गमयतीत्यर्थः । एवमन्येऽप्यनुसर्तव्याः ।।८४८।
[दु० टी०]
स्तौति०। षत्वं भूतमस्येत षत्वभूतः । भावप्रत्ययस्तत्र सुखसमासप्रतिपत्त्यर्थः । सनि षभूत इत्युक्ते षो भूतः षभूतः इति गमकत्वान्निष्ठान्तः कर्मधारयस्तदा षकार एव व्यपदिश्यते न समुदाय इति । 'ष्टुञ् स्तुतौ, सिचिर् क्षरणे, जि ष्वप शये' (२।६५; ५।११; २।३२), विकारस्थत्वात् षत्वं सिद्धं शक्यते नियमान्तरेणैवकारो द्योतयितुम्, किन्तु स्तौतीनन्तयोः षण्येवेत्यपि स्यात् । ततश्च ‘तुष्टाव, असूषुपत्' इत्यत्र न स्यात् सिसिक्षति, सुसूषतीत्यत्र तु स्यात्, तस्मानियम- विशेषप्रतिपत्त्यर्थ एवकार इति । विकृतनिर्देशादविकृते सनि नास्ति नियम इत्याह- षत्वभूत इत्यादि । सुषुप्सतीति । "ग्रहिस्वपिप्रच्छां सनि" (३।४।९) इति सम्प्रसारणम् । कथमित्यादि । स्वपेश्चक्रीयिते कृते बहिरङ्गलक्षणः सन् अन्तरङ्गलक्षणं द्विवचनं तदाश्रयमपि षत्वमन्तरङ्गलक्षणमित्यर्थः ।
न च षणीति विषयसप्तमी किन्तर्हि परसप्तमी ? अर्शन इत्यादि । प्रतिपूर्व 'इण गतौ' (२।१३) सन्, "स्वरादेर्द्वितीयस्य" (३।३।२) इति द्विवचनम्, "सन्यवर्णस्य" (३।३।२६) इतीत्त्वम्, ततश्च निमित्तात् षत्वम्, ततः स्तोतीनन्तयोरेव षणीति नियमात् सनो द्विर्वचनस्य षत्वं न प्राप्नोति तस्मादभ्यासस्येति वक्तव्यम् । तेन धातो: परस्य सकारस्य षत्वं स्यादेव, तन्न वाच्यम्, स्तौतीनन्तौ हि धातु, तत्प्रकारा धातव एव नियमेन व्यावर्त्यन्ते, सन एव हि द्विर्वचनात् सनोऽवयव इत्याह- सनोऽवयवस्यानभ्यासस्थानिमित्तात् षत्वं स्यादेवेति । अथवा षणीत्यर्थवतो ग्रहणमिहाचार्यस्यापोनरुक्त्यात् समुदाय एवार्थवान् नावयवः, तस्मात् सिषशब्दोऽर्थवान् न षणिति । अथवा निमित्तं कार्यित्वेनाश्रीयते कथं तर्हि सन्यवर्णस्येतीत्त्वम् ? सत्यम्, सनि परे योऽभ्यास इति तत्रोक्तमेव । अन्य आहएतन्निमित्तात् सनः कृतषत्वस्यैव द्विवचनम् । तदसत्, प्रकृत्याश्रितत्वात् द्विवचनमेवान्तरङ्गं नित्यं च द्विवचने कृते पुनः षत्वमनित्यं शब्दान्तराश्रयत्वात् तथाभ्यासान्तरस्य षत्वमुच्यते अभिषिषिक्षतीत्यादिषु । तिबन्तग्रहणं स्पष्टार्थमेव तथा सनोऽनुबन्धोऽपि । अन्य आह - अकार उच्चारणार्थोऽपि सम्भाव्यत-व्यतिपिषे (व्यतिसुषुवे) । सन्जेरिनन्तस्य वेत्येकेसिषञ्जयिषति. सिसञ्जयिषति ।।८४८।
[वि० प०]
स्तोतानन्त० । षत्वभूत इति षत्वं भूतमस्य, षत्वं भूत: प्राप्तः इति वा विग्रहः । सुष्वापयिषतीति । "द्युतिस्वाप्योरभ्यासस्य" (३।४।१६) सम्प्रसारणम् । अषत्वभूते सनि नायं नियम इति षत्वं स्यादेवेत्याह- षत्वेत्यादि । "पहिस्वपिप्रच्छां सनि'' (३।४।९)