________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४७३
+
सन्
अन् + ति । 'वच् भाषणे' (२।३०) धातु
६. विवक्षति । वच् से इच्छार्थ में 'सन्' प्रत्यय, द्विर्वचनादि, सकार को षकार, चकार को ककार, क्-ष्
संयोग से क्षकार, धातुसंज्ञा तथा विभक्तिकार्य ।
+
७. चिकीर्षति । कृ सन् + अन् + ति । ‘डुकृञ् करणे' (७।७) धातु से इच्छार्थक (कर्तुमिच्छति) सन् प्रत्यय, "ऋदन्तस्येरगुणे" ( ३।५।४२) से ऋकार को इर् आदेश, द्विर्वचन, अभ्याससंज्ञा, ककार को चकार, “स्वरान्तानां सनि” (३।८।१२) से दीर्घ, प्रकृत सूत्र से सकार को षकार, धातुसंज्ञा तथा विभक्तिकार्य ।
८. सिषेव। सिव् + परोक्षा-अट् । 'षिवु तन्तुसन्ताने' ( ३।२) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद प्र० पु०-ए० व० 'अट्' प्रत्यय, द्विर्वचनादि तथा प्रकृत सूत्र से सकार को षकारादेश ।
+
९. सुष्वाप । स्वप् + परोक्षा- अट् । 'त्रि ष्वप शये' (२।३२) धातु से परोक्षासंज्ञक 'अट्' प्रत्यय, द्विर्वचनादि तथा सकार को षकारादेश ।
+
१०. परिष्करोति । परि + सुट् + कृ 1 उ + वर्तमाना-ति । ‘परि' उपसर्गपूर्वक ‘डु कृञ् करणे' (७।७) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, "सुड् भूषणे सम्पर्युपात्” (३।७।३८) से सुडागम, 'उ' विकरण, ऋकार तथा उकार को गुण तथा प्रकृत सूत्र से सकार को षकारादेश ||८४६ |
८४७. शासिवसिघसीनां च [३।८ । २७]
[ सूत्रार्थ]
नामिसंज्ञक वर्ण, ककार तथा रेफ से परवर्ती 'शास्-वस्- घस्' धातुघटित सकार को षकारादेश होता है ||८४७
[दु० वृ०]
निमित्तात् परः शासिवसिघसीनां च सः षत्वमापद्यते । शिष्यते, उष्यते, जक्षतुः । अविकारस्य इत्यारम्भः ||८४७ |
[दु० टी० ]
शासि० । 'आङः शासु इच्छायाम् ' (२।४६ ) इत्यस्यापि क्विपीत्त्वं ज्ञापितमेव । तेन 'आशिषौ, आशिषः' इति । वसे: सम्प्रसारणे घसेरुपधालोपेऽघोषे प्रथमे सति निमित्तमित्याहशिष्यते इत्यादि । कथं 'मित्र शास्ति' इति मित्रशीः, शासेर्निमित्तत्वात् षत्वे कृते डत्वं प्रसज्येत ? सत्यम्, ‘सजुषाशिषो र: ' (२।३।५१ ) इत्यत्राशीर्ग्रहणस्योपलक्षणत्वाद् भाष्यसम्मतमेतत् । सूत्रकारमतं तु क्विबेवात्र न दृश्यते, वाक्यकारसम्मतमेतत् ॥८४७।
[वि० प० ]
11
शासि० । “शासेरिदुपधायाः " ( ३।४।४८) इतीत्त्वे कृते यजादित्वात् सम्प्रसारणे " वा परोक्षायाम्" ( ३।४।८० ) इत्यदेर्घस्लृ आदेशे, "गमहन ०' (३।६।४३) इत्यादिनोपधालोपे, अघोषे प्रथमे चेति निमित्तात् परः सकार इति षत्वम् ॥८४७|