________________
४५७
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः [रूपसिद्धि]
१. आस्ताम् । अस् + अन्लुक् + ह्यस्तनी-ताम् । 'अस् भुवि' (२।२८) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु०-द्विव० 'ताम्' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण, “अदादेलुंग विकरणस्य” (३।४।९२) से उसका लुक् तथा प्रकृत सूत्र से अकार को आकारादेश।
२. आसन् । अस् + अन्लुक् + ह्यस्तनी-अन् । 'अस् भुवि' (२।२८) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु०-ब० व० 'अन्' प्रत्यय, अन्लुक् तथा प्रकृत सूत्र से अकार को आकारादेश । ___ ३. व्यत्यास्त । वि + अति + अस् + ह्यस्तनी-त । 'वि-अति' उपसर्गपूर्वक 'अस् भुवि' (२।२८) धातु से ह्यस्तनीविभक्तिसंज्ञक प्र० पु०-ए० व० 'त' प्रत्यय, अन्लुक्, इकार को यकार तथा प्रकृत सूत्र से अकार को आकार ।।८३९।
८४०. एतेर्ये [३।८।२०] [सूत्रार्थ
ह्यस्तनीविभक्तिसंज्ञक प्रत्यय के परे रहते इण् धातु के स्थान में यकारादेश होने पर अट् आगम में अकार को आकार आदेश होता है ।।८४०।
[दु० वृ०]
ह्यस्तन्यनि एतेर्ये परेऽटोऽवर्णस्याकारो भवति । आयन्, अध्यायन् । परापि वृद्धिरिणमात्राश्रितेन यत्वेन बाध्यते । य इति किम् ? अगात् ।।८४०।।
[दु० टी०]
एते० । हस्तन्या अन्यस्मिन वचनेऽद्यतनीक्रियातिपत्योश्च यकारस्यासम्भवादित्याहह्यस्तन्यनीति । इण इकश्च ग्रहणमित्याह- एतेरिति । तर्हि “एर्ये' इत्यास्ताम्, किं तिपा निर्देशेन ? सत्यम् । एतीति यस्य रूपमस्ति तस्य परिग्रहार्थं तिब्ग्रहणम्, तेन यत्वविधौ इणा इकोऽपि गृह्यते इत्यर्थः । अथ परस्मैपदिना इणा इति इक उपलक्ष्यते । उपलक्षणं च लोकतः सिद्धम्, तथा पाठसुखार्थम् इति । ये परेऽन्यस्याकारस्यासम्भवादित्याह - अटोऽवर्णस्येति ।।८४०।
[वि० प०]
एतेर्ये । अत्रापीण: स्थानेऽन्यस्मिन् प्रत्यये यकारस्यासम्भवात् परिशिष्टमाहह्यस्तन्यनीति । यकारे चास्मिन् अन्यस्याकारस्यासम्भवादाह- अटोऽवर्णस्येति । इणश्चेति यकार: । इण्वद् इकोऽपीति दर्शयति - अध्यायन्निति । अत्रापि "स्वरादीनां वृद्धिरादेः" (३।८।१७) इति सिध्यतीति न च वक्तव्यमित्याह- परापीत्यादि । पूर्ववद् इणश्चेति यत्वमन्तरङ्गमित्यर्थः । अगादिति । "इणो गा" (३।४।८४), "इणस्था०" (३।४।९३) इत्यादिना सिचो लुक् ।।८४०।