________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
वव्रश्च, वव्रश्चिथ। बभ्रज्ज, बभ्रज्जिथ। एवम् उवास, उवसिथ। उवाप, उवपिथ। उवाह, उवहिथ। यणाशिषोरभ्यासस्याभावात् परोक्षैवानन्तरा निमित्तमिति कल्पना गरीयसीति अभ्यासस्य निर्दिष्टत्वाद् येनाभ्यास: संभवति तत्र स्यादित्याह – परोक्षायामित्यादि। स्वपिवचियजादीनां यणाशिषोः परोक्षायां ततोऽभ्यासस्येति योगविभागगौरवं स्यात्। उभौ ग्रहादिस्वपादी अवयवौ येषामिति उभयशब्दो राश्योर्व्यक्तिषु बहुवचनम्। व्यवहितस्यापि ग्रहादेः परिग्रहार्थमुभयेषां ग्रहणमिति।।५४३ ।
[वि० प०]
परोक्षायाम् । अगुणे परत्वादन्तरङ्गत्वाच्च कृते संप्रसारणे द्विवचनमिति अभ्यासे संप्रसारणं सिद्धम्। अतो गुणिन्येवायमित्याह-गुण्यर्थोऽयमिति। गुणिन्यर्थः प्रयोजनमस्येति विग्रहः। 'जिज्यिथ' इति नित्यात्वतां स्वरान्तानामित्यादिना थलीट्पक्षे, इटि चेत्याकारलोपः। 'सुष्वपिथ' इत्यादावपि पूर्ववदिट्। अथ परोक्षाग्रहणं किमर्थम् , अनन्तरत्वादिह परोक्षानुवर्तिष्यते। न च वक्तव्यम्- यणाशिषोरप्यनुवृत्तिः स्यात्, तयोरभ्यासस्याभावात्। तदयुक्तम्, अभ्यासस्येह निर्दिष्टत्वाद् यस्मिन्नेवाभ्यास: सम्भवति, तस्मिन्नेव प्रत्यये स्याद् इत्याह - परोक्षायामित्यादि। तेन संश्चक्रीयितयोर्न भवति।। ५४३।
[बि० टी०]
परो०। अगुणे परत्वादिति पञ्जी। नन्वतस्मात् पूर्वमेवैषां सम्प्रसारणमुक्तम्, कथं परत्वम् ? सत्यम्। एवं योजनीया पञ्जी। अस्य सूत्रस्य परत्वात् परस्मिन् विषयत्वात् पश्चाद् विषयत्वादिति यावत्। अगणेऽन्तरङ्गत्वात् संप्रसारणे कृते द्विवचनमित्यस्यापि सिद्धं सम्प्रसारणमित्याह – गुणीनि। ननु “न सम्प्रसारणे" (३। ८।१७) इत्यत्र विविधतुरित्यादौ अगुणेऽपि सम्प्रसारणस्यानङ्गीकृतत्वात् । तथा 'शिश्वियतुरित्यत्रापि अभ्यासे सङ्गच्छत एव प्रतिषेधः' इति “न वाश्व्योः " (३। ४।६) इत्यत्रापि पञ्ज्यां कथमेतदपपद्यते? सत्यम्। 'न सम्प्रसारणे' इत्यस्थितो अत्र गुणिपरोक्षाभावे तु सामान्यतो भविष्यति, यतोऽनेनेवोक्तम् – कृतसम्प्रसारणस्य द्विवचनेऽभ्यासे विरूपसद्भावाद् 'वि' भागस्य सम्प्रसारणविषये निषेधाभावाद् गुणिन्यपि स्यादिति। अन्यथा च सामर्थ्यप्राप्तागुणेऽभ्यासे परोक्षायां कथं विषयान्तरं प्रतिबन्धं क्षमते इति सम्प्रदाय:।।
परोक्षायामिति किमिति वृत्तिः। ननु परोक्षाग्रहणाभावेऽपि अनन्तरत्वेन आवर्तमानासु यणपरोक्षाशी: परीक्षाग्रहणं भविष्यति अभ्यासग्रहणात्। ततश्चागण कृतसम्प्रसारणस्य द्विरुक्त्या सम्प्रसारणं सिद्धर्मव। अर्थात् गणिन्यां परोक्षायामम्य विषयः कथं चक्रीयिने स्यात् ? सत्यम्। पूर्वस्मिन् परोक्षाया आशिषा व्यवधानात् तस्या इह नानुवृत्तिः । तथा च टीकाकारः - यणाशिपारम्भ्यासाभावात् परीक्षेवानन्तरा निमित्तमिति कल्पना गरीयसीति, तथापि व्यवहितपाट एव गुरुः । ततश्चाभ्यासग्रहणाद् येनाभ्यामः संभवति तस्मिन्नेत्र स्यादित्याह - परोक्षति।। ।, ८३।