________________
तृतीये आख्याताध्यायेऽष्टमो घुडादिपादः
४५१
२. ह्यस्तनीग्रहणं स्पष्टार्थम् (दु० टी०; वि० प०)। ३. ह्यस्तन्यां सौ वा वक्तव्यम् इति मतान्तरचोदितं न वक्तव्यमित्यर्थः (दु० टी०)। ४. यदीह शस्तनीग्रहणं न स्यात्, अद्यतन्यामपि सौ सिच: सकारस्य तकार: स्यात्
(वि० प०)। ५. वक्तव्यमिति व्याख्येयम्, मतान्तरमेतत् । अस्य तु न सम्मतमित्यर्थः (वि० प०)। [रूपसिद्धि]
१. अचकात्। अट् + चकास् + अन्लोप + ह्यस्तनी-दि । ‘चकासृ दीप्तौ' (२।३८) धातु से हस्तनीविभक्तिसंज्ञक प्र० पु० - ए० व० 'दि' प्रत्यय, “अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु" (३।८।१६) से धातुपूर्व अडागम, अन् विकरण का लुक्, प्रकृत सूत्र से सकार को तकार तथा "व्यञ्जनाद् दिस्योः ' (३।६।४७) से 'दि' प्रत्यय का लोप।
२. अन्वशात्। अनु + शास् + अन्-लोप + हस्तनी-दि । 'अनु' उपसर्गपूर्वक 'शासु अनुशिष्टौ' (२।३९) धातु से ह्यस्तनीसंज्ञक 'दि' प्रत्यय, अडागम, “वमुवर्णः" (१।२।९) से उकार को वकार, अन् विकरण का लुक्, प्रकृत सूत्र से सकार को तकार तथा 'दि' प्रत्यय का लोप ।।८३५।। ८३६. अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु [३।८।१६]
[सूत्रार्थ
'ह्यस्तनी-अद्यतनी-क्रियातिपत्ति' विभक्तियों के परे रहते धातु से पूर्व अडागम होता है ॥८३६।
[दु० वृ०]
ह्यस्तन्यादिषु परतो धातोरादिरडागमो भवति। अकरोत्, अकार्षीत्, अकरिष्यत् । धातोरिति किम् ? न्यविशत ।।८३६।
[दु० टी०] अड् धात्वादि० । टकारोऽयं निर्देशसुखार्थः, वृत्तावड्व्यवधानेऽपि विशेषणार्थ: ।।८३६। [वि० प०]
अड् धात्वादि० । अकरिष्यदिति । "हनृदन्तात् स्ये" (३।७।७) इतीट् । न्यविशतेति। "नेर्विश्" (३।२।४२-१) इति रुचादित्वाद् आत्मनेपदम् ॥८३६।
[बि० टी०]
अड् धात्वादि० । नन्वत्र आदिग्रहणादटो धातुग्रहणेन ग्रहणम् । ततश्च 'अपीपचत्' इत्यादौ चणि "स्वरादेद्वितीयस्य" (३।३।२) इति द्विर्वचनप्रसङ्गः । नैवम्, धातुसंज्ञाप्राप्तिकाले यः स्वरादिस्तस्य ग्रहणं भविष्यति । अन्यथा सर्वेषां चणि स्वरादित्वाद् बाधकत्वं नोपपद्यते। "द्विवचनमनभ्यासस्य" (३।३।१) इत्यत्र द्विवचनविधौ गुणग्रहणात् । किवादिग्रहणस्य सामीप्यार्थे न दोषः। अथ् धातुग्रहणं किमर्थम् अडादिरित्यास्ताम्, अधिकृतधातुग्रहणाद्