________________
४४८
कातन्त्रव्याकरणम्
[दु० वृ०]
नात्र तदन्तविशेषणम् । रुिपधाया धातोर्नामिनो दीघों भवति व्यञ्जने परे न तु कुर्छरोः। चिकीर्षति, बुभूषति, दीव्यति, सीव्यति, कुर्दते, खूर्दते। धातोरिति किम् ? कुर्कुरः। कथं कुर्कुरीयति? नामधातुत्वात् । नामिन इति किम् ? कर्ता, भव्यम् । वोरिति किम् ? नृत्यति। अकुर्छरोरिति किम् ? कुर्यात् । दीर्घविधिं प्रति न स्थानिवदिति छुर्यते। कथं री रेषणे- रिर्यतुः । वी प्रजने-विव्यतुः? अभ्यासे प्रतिषेध इति। व्यञ्जन इति किम् ? किरति, गिरति, नुवति ।।८३४।
[दु० टी०]
नामि० । इह धात्वधिकारः स्मर्तव्यः, स च नामिनो विशेषणं विधेयस्य प्रधानाङ्गत्वात्। न च धात्वधिकारस्य श्रुतत्वाद् धातोरेव व्यञ्जने स्यादिति चोद्यम् अकुर्छरोरिति प्रतिषधात्। केचिद् अकुर्छरोरिति। पर्युदासाद् धातोरित्याचक्षते रेफसाहचर्याद् वकारोऽप्यन्त एव गृह्यते इति केचित् । एवम् उब्जेरपि - न्युजति । कथमित्यादि। 'गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः' (का० परि० २) इति। यथा दिवमिच्छति दिव्यति, चतुर्य्यति। प्रतिदीनः' इति व्यञ्जने परे धातोरयमिकारो व्युत्पत्तिपक्षस्येहाश्रयणाद् दिवे: कनौणादिकः। दीर्घ इत्यादि। न पदान्तद्विर्वचनवर्गान्तानुस्वारप्रथमतृतीयदीर्घलुविधिषु स्वरादेषो न स्थानिवदेवेत्यर्थः । केचित् कुरुच्छुरोरिति विकरणान्तमेव पठन्ति। कुरशब्द इति धातुनिवृत्त्यर्थम्, तेन कुर्यते, कुर्यात्। भाष्ये तु नैष पाठो धातुरेवास्तीति लक्ष्यते । अन्यथाऽलाक्षणिकत्वात् साहचर्याच्च कुरशब्द इत्यस्यैव ग्रहणं स्यात्, न कृतविकरणलोपस्येति । रिर्यतरित्यादि। दीर्घविधौ यत्वलक्षण: स्वरादेशो न स्थानिवदेव, न पदान्त इत्यादिपरिभाषाया अनित्यत्वं साधितम् । तेनाभ्यासे प्रतिषेध इति न वक्तव्यम् ।।८३४।
[वि० प०]
नामि०। ननु रेफवकाराभ्यां धातुर्विशिष्यते, विशेषणेन च तदन्तविधिरिति न्यायाद् रेफवकारान्तस्यैव धातोर्दीर्घः प्राप्नोति। कथं 'मूर्छति, धूर्वति' इत्यत्र दीर्घत्वं स्यात् । 7 च वक्तव्यम् - दीर्घवानयं पाठ इति। "राल्लोप्यौ" (४।१।५८) इति कृते 'मुरौ, मुरः, धुरो, धुरः' इति न स्यात् । तदयुक्तमित्याह- नात्रेति। कथं पुनरत्र तदन्तविशेषणं नास्तीति? सत्यम् । येन नाव्यवधानं तेन व्यवहितेऽपि स्यादिति स्वरस्यैव दीघों भवनाद एकवर्णव्यवधानेऽपि तस्यैव भविष्यति। यत् पूर्वत्रोपधाग्रहणं तदिहार्थम् । यदि चेह तदन्तविशेषणं स्याद् इहापि तत्रोक्तेन न्यायेनोपधाया एव भविष्यतीति किम्पधाग्रहणेन? तस्मादुपधाग्रहणम् अनन्त्ययोरपि रेफवकारयो म्यपधापेक्षया अनन्त्यत्वे सति उपधात्वप्रतिपत्त्यर्थम् ।
___ एवं च सति न तदन्तविशेषणमिति स्थितम् । अत एव व्यञ्जनमिह सामान्यम् प्रकृतेः प्रत्ययस्य च भविष्यतीति। कुर्यादिति । ननु ये चेति विकरणोकारलोपस्य स्वरादेशत्वात् स्थानिवद्भावेन व्यञ्जनव्यवहितत्वाद् दीपों न भविष्यति किं प्रतिषेधेनेत्याह – दीघेत्यादि । न पदान्तद्विर्वचनेत्यादिना स्थानिवद्भावस्य प्रतिषेधोऽस्तीत्यर्थः । कथमिति । “य इवर्णस्य०''