________________
४३८
कातन्त्रःयाकरणम्
२. उपधाधिकारेऽवर्णग्रहणम् ऊढवानिति सिद्ध्यर्थम् (दु० टी०) । ३. आदिति तकारः सुखोच्चारणार्थ: (दु० टी०) । [रूपसिद्धि]
१. सोढा । सह + ता । 'षह मर्षणे' (११५६०) धातु से पञ्चमीविभक्तिसंज्ञक प्र० पु०-ए० व० 'ता' प्रत्यय, “वेषुसह०' (४।६।८१) से अनिट्, “हो ढः" (३।६।५६) से हकार को ढकार, तकार को धकार, “तवर्गस्य षटवर्गाट्टवर्ग:" (३।८।५) से धकार को ढकार तथा प्रकृत सूत्र से ढलोप-अकार को ओकार आदेश।
२. वोढा। वह + ता । 'वह प्रापणे' (१।६१०) धातु से पञ्चमीसंज्ञक 'ता' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।८२७।
८२८. धुटां तृतीयश्चतुर्थेषु [३।८।८]
[सूत्रार्थ
वर्गीय चतुर्थ वर्गों के परे रहते धातुघटित धुसंज्ञक वर्ण के स्थान में तृतीय वर्ण आदेश होता है ।।८२८।
[दु० वृ०]
धातूनां धुटां वर्णानां तृतीयो भवति चतुर्थेष्वेव परत: । दोग्धा, द्विड्ढि, चकाद्धि,लब्धा। चतुर्थेष्वेवेति नियमात् शक्यते, द्विष्टः ।।८२८।
[दु० टी०]
धुटाम्। धुटामित्यर्थायाता इह धातवः। सम्बन्धे त्वियं षष्ठी। तदन्तविशेषणं नास्तीति जक्षतुरित्यघोषेष्वशिटां प्रथमो भवत्येव। चतुर्थेष्वेवेत्यादि धुटां तृतीयो घोषवति सिद्धो नियमार्थोऽयं योग इत्यर्थः ।।८२८।
[वि० प०]
धुटाम् ०। द्विढि इति। 'द्विष अप्रीतौ' (२।६०)। हे: पूर्ववद् धिभावः । तथा चकाद्धीति। 'धुटां तृतीयः' इत्यनेनैव घोषवति सामान्य सिद्धे नियमार्थमित्याहचतुर्थेष्वेवेति।।८२८।
[बि० टी०]
धुटाम् ०। चतुर्थेष्वेवेति वृत्तिः। चतुर्थेष्वेवेति नियमात् शक्यते द्विष्टः इति। ननु कथमिदं प्रत्युदाहृतम्, यावता द्विष्ट इति चतुष्टयविहिततृतीयस्याघोषेऽतिषयत्वात् कथं नियमस्य व्यावृत्तिः प्राप्तेरभावात् ? अत्र केचिद् द्विष्ट इति पाठमपनीय 'द्विष्व' इति प्रत्युदाहरणं वदन्ति, तन्नातिपेशलम्, घोषवति प्रत्युदाहरणद्वयस्य वैफल्यात् । वस्तुतस्तु चतुर्थग्रहणाभावे धुटां तृतीय इति घोषवत्यघोषे चाख्यातसूत्रस्यैव विषयः। न च वक्तव्यम् अघोषे प्रथमो भविष्यति उत्तरत्र नियमेन शिटस्तदविषयत्वात् । अतः शक्यते इत्यत्र चतुष्टयप्रकरणसूत्रेण प्राप्तौ द्विष्ट इत्यत्राख्यातसूत्रेण प्राप्तौ नियमः । अतो द्विष्ट इति प्रत्युदाहृतम् ।