________________
कातन्त्रव्याकरणम्
८२६. ढे ढलोपो दीर्घश्चोपाधायाः [३।८।६] [सूत्रार्थ
ढकार के परे रहते पूर्ववर्ती ढकार का लोप तथा उपधासंज्ञक स्वर को दीर्घ आदेश होता है ।।८२६।
[दु० वृ०]
ढे परे ढलोपो भवति उपधायाश्च दीर्घः। लीढः, मूढः। कथं लेढा, द्रोढा ? अन्तरङ्गत्वाद् गुणे कृते ढलोप एव स्यात् । उपधाग्रहणस्य संज्ञापूर्वकत्वाद् ऋतो न स्यात्। तेन बृहू - वृढः, दृहू-दृढः ।।८२६।
[दु० टी०]
ननु च ढलोपेऽनन्तरस्यैव ढे दीर्घो न्यायादव्यवहितत्वाच्चान्यत्र न भवति उपधाग्रहणं किमर्थमित्याह - उपधेत्यादि। 'संज्ञापूर्वको विधिरनित्यः' (का० परि० ३०) इति ऋकारस्य न भवति। अन्य आह - वृढस्तृढ इति कृदन्तप्रयोगोऽभिधानात् प्रवर्तते, उपधाग्रहणं तु स्पष्टार्थमिति । शर्ववर्ममतं ननु तड्ढोकते इत्यत्र पररूपे कृते ढलोप: प्राप्नोति, परत्वात् ? सत्यम् । प्रकरणमत्राश्रयणीयम्, तदसत् । पदान्ते धुटां प्रथमोऽन्तरङ्गो ढे ढलोपोऽत्र बहिरङ्गस्तत्र 'अन्तरङ्गबहिरङ्गयोरन्तरङ्गविधिबलवान्' (का० परि० ५०) इत्याह - भाष्यकारो ढे ढलोपेऽपदान्तग्रहणमिति ।।८२६।
[वि० प०]
ढे ढ०। ननु परत्वानित्यत्वाच्च ढे ढलोपे दीर्घत्वे उपधालक्षणस्य गुणस्याभावात् कथं लेढा, द्रोढेति। न च नाम्यन्तलक्षणो गुण इहास्तीति नाम्यन्तस्य लाक्षणिकत्वात् । 'सकृद्गतो विप्रतिषेधो यद् बाधितं तद् बाधितमेव' (का० परि० ३६) इति न्यायाद् वेत्याह-अन्तरङ्गत्वाद् गुणे कृते ढलोप एवेति। चकारस्यान्वाचयशिष्टत्वाद् दीर्घमन्तरेणापि प्रधानवाक्यनिर्दिष्टोऽयमेव ढलोपो भवतीत्यर्थः । ननु ढलोपानन्तरं दी? भवन्नर्थादुपधाया एव भविष्यति, किमनेनेत्याह - उपधेत्यादि गतार्थम् ।।८२६।
[समीक्षा] __'लीढः, मूढः, उपगूढम्' इत्यादि शब्दरूपों की सिद्धि के लिए दोनों ही व्याकरणों में ढलोप-उपधादीर्घ किया गया है। पाणिनि का सूत्र है - "ठूलोपे पूर्वस्य दीर्घोऽण:' (अ० ६।३।१११)।
[विशेष वचन] १. उपधाग्रहणस्य संज्ञापूर्वकत्वाद् ऋतो न स्यात् (दु० वृ०)। २. संज्ञापूर्वको विधिरनित्य इति ऋकारस्य न भवति (दु० टी०)। ३. अन्य आह- वृढस्तृढ इति कृदन्तप्रयोगोऽभिधानात् प्रवर्तते, उपधाग्रहणं तु
स्पष्टार्थमिति शर्ववर्ममतम् (दु० टी०) । ४. भाष्यकारो ढे ढलोपेऽपदान्तग्रहणमिति (दु० टी०) ।