________________
४१६
कातन्त्रव्याकरणम्
शिश्रयिषति, शिश्रीषति। यु-यियविषति, युयूषति । ऊर्गुञ् - प्रोणुनविषति, प्रोणुनूषति। भर्-बिभरिषति, बुभूषति। ज्ञप-जिज्ञपयिषति, जीप्सति। सनु-सिसनिषति, सिषासति। तनुतितनिषति, तितांसति। पत्ल-पिपतिषति, पित्सति। दरिद्रा-दिदरिद्रिषति, दिदरिद्रासति। भ्रस्जभृयूणामप्राप्ते विभाषा।।८१५।
[दु० टी०]
इव०। सनीत्यनुवर्तते। भरेत्यना निर्देशाद् 'भृञ् भरणे' (१।५९७) इति भौवादिकस्य ग्रहणम् । सिस्वरिषति, सुस्वूपति। "स्वरतिसूति०" (४।६।८३) इत्यादिना स्वरतेर्विभाषाऽस्त्येव। भ्रस्जभृयूणामिति यौतेरुवर्णान्तात् प्रतिषेधे सति अप्राप्ते विभाषा।।८१५।
[वि० प०]
इवन्त०। दुवूषतीति। "च्छ्वोः शूटौ पञ्चमे च" (४।१।५६) इति वकारस्योट। ईतिीति। 'ऋधिज्ञप्योरीरितौ वक्तव्यौ' इति वचनाद् ईर् अभ्यासलोपश्चा बिभृक्षतीति। भ्रस्जे जादेशो दर्शित एव। धीप्सतीति। "दन्भेरिच्च" (३।३।४१) इति ईत्वम् । “सनि चानिटि" (३।५।९) इत्यत्र चकारादनामिनोऽपि क्वचिदिति वचनादनुषङ्गलोपः। यियविषतीति। "उवर्णस्य जान्तस्थ०" (३।३।२७) इत्यादिना अभ्यास-उकारस्येकार:। बिभरिषतीति। सूत्रे ‘भर' इत्यना निर्देशात् 'भृ भरणे' (१।५९७) इति भौवादिकस्य ग्रहणम् । डु भृञस्तु नित्यम् - बुभूषेतीति। जीप्सतीति। ऋधिना तुल्यं लक्षणम् । सिषासतीति। "धुटि
खनिसनिजनाम्" (४।१।७१) इत्यत्र "सनि च" (३।५।९) इति वचनादात्त्वम् । तितांसतीति। "हनिङ्गमोरुपधायाः" (३।८।१३) इत्यत्र 'तितांसति, तितनिषति इति वा वक्तव्यम्' इति पक्षे दीर्घत्वम् । पित्सतीति। "सनि मिमी०" (३।३।३९) इत्यादिना स्वरस्येस् अभ्यासलोपश्च। "स्कोः संयोगाद्योरन्ते च" (३।६।५४) इति सकारलोपः। भ्रस्जेरित्यादि। अन्येषां प्राप्त इत्यर्थादुक्तम् ।।८१५।
[बि० टी०]
इवन्तः। नन्वत्र वाग्रहणं किमर्थम्, भ्रस्भृयूणां ग्रहणेनैव विकल्पोपलब्धिः, "सिद्धे सत्यारम्भः' (का० परि० ५९) इति न्यायात् । न च वक्तव्यं नियमार्थम् । उकारान्तानां मध्ये युधातोरेव, उवर्णान्ताच्चेत्यत्र दोषाद् व्यावृत्तिर्नास्तीत्यतो विकल्प: स्यात् । ज्ञापकं तु न भवत्येव? सत्यम् । परयोगेणात्र वा गम्यते इति। "उवर्णान्ताच्च" (३।७।३२) इत्यादौ विकल्पं बोधयिष्यति, तन्निरासार्थ वाग्रहणम् । अथवा उत्तरार्थं क्रियमाणं वाग्रहणम्, इह त्वेतदर्थम् ।।८१५।
[समीक्षा
'दिदेविषति-दुयूषति, दिदम्भिषति-धिप्सति' आदि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में वैकल्पिक इडागम किया गया है। पाणिनि का सूत्र है - “सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम्' (अ० ७।२।४९)। पाठान्तर में 'तन्, पत्, दरिद्रा' धातुओं का भी पाठ देखा जाता है। ‘स्वृ' धातु से वैकल्पिक इडागम के सम्बन्ध