________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
[दु० टी० ]
अर्त्तेरनि परे ऋच्छादेशो भवति । ऋच्छति । तिब्निर्देशार्थ एव ।। ७५७ ।
[दु० वृ०]
अर्तेः। ऋच्छ गतीत्यादिना धात्वन्तरेण सिद्धे वचनम्, अरतीति प्रयोगनिषेधार्थम् । तिब्निर्देशः पाठसुखार्थः।। ७५७।
[वि० प० ]
अर्तेः । तिपा निर्देशार्थ एवेति नान्यत् फलमस्ति सुखार्थं धातुस्वरूपमेवेति तिपा निर्दिष्टमिति भावः । न चान्तरेण तिपम् 'ऋ ऋच्छ' इति निर्देशे ऋकारान्तस्येति तदन्तविशेषणाशङ्का। प्रधानधातुप्रस्तावाद् ऋच्छ गतीन्द्रिय०' इत्यादिनापि सिद्धं साध्यं भवति। केवलम् अरतीति प्रयोगनिवृत्त्यर्थं वचनम् ।। ७५७ ।
[समीक्षा] द्रष्टव्यम् पूर्व सूत्र [विशेष वचन ]
-
सं० ७५०
३४९
१. अरतीति प्रयोगनिषेधार्थम् (सूत्रमिदम् ) २. तिब्निर्देश: पाठसुखार्थ (दु० टी० ) ।
३. सुखार्थं धातुस्वरूपमेवेति तिपा निर्दिष्टमिति भाव: (वि० प० ) । [रूपसिद्धि]
१. ऋच्छति। ऋ + अन् + ति । 'ऋ प्रापणे च' (१ । २७५) धातु से वर्तमानाविभक्तिसंज्ञक ‘ति' प्रत्यय, 'अन्' विकरण, 'ऋ' को 'ऋच्छ' आदेश तथा अकार का लोप ।। ७५७ ।
७५८. सर्तेर्धावः [३। ६ । ७८ ]
[ सूत्रार्थ]
'अन्' विकरण के परे रहते 'सृ' धातु को 'धाव' आदेश होता है ।। ७५८। [दु० वृ०]
सर्तेरनि परे धावादेशो भवति । धावति । ननु धावु गतावप्यस्ति ? जवाभिधाने यथा स्यादिति वचनम्, तेन प्रियामनुसरति ।। ७५८।
(दु० टी०; वि० प० ) ।
[दु० टी०]
सर्तेः। नन्वित्यादि। सरत्यादिवत्, जवाभिधानं प्रतिपत्तिगौरवमिति भावः ।। ७५८।