________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
३२९
३. अनानत्। अट् + नानह् + दि । 'नह बन्धने' (३ | १२०) धातु से “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" (३ । २ । १४) सूत्र द्वारा 'य' प्रत्यय, द्विर्वचनादि, " तस्य लुगचि” (४४/४५ ) से यलोप, "ते धातव: " (३ । २ । १६ ) से 'नानह' की धातुसंज्ञा, ह्यस्तनीसंज्ञक 'दि' प्रत्यय, अडागम, अन्लोप, दिलोप, ह् को ध् तथा ध् को त् आदेश ।। ७३८ ।
७३९. भृजादीनां षः [ ३ | ६ | ५९ ]
[सूत्रार्थ]
धुट् तथा विराम के परे रहते भृजादिगणपठित धातुओं के अन्तिम वर्ण को 'ष् ' आदेश होता है ।। ७३९ ।
[दु० वृ०]
भृजादीनामन्तः षो भवति धुट्यन्ते च । भ्रष्टा, भ्रक्ष्यति । व्रष्टा, व्रक्ष्यति । स्रष्टा, स्रक्ष्यति। मा, मार्क्ष्यति, अमार्ट्। यज् यष्टा । राज- राष्टिः । भ्राजू - भ्राष्टिः । भ्रस्जेर्भृजिरिहोपलक्षणम्। निपातनस्येष्टविषयत्वात् सम्प्रसारणादन्यत्र विभाषा - भ्रष्टा, भ। भ्रज्जनम्, भर्जनम् । सम्प्रसारणे तु भृज्जति, भृज्ज्यते।। ७३९।
[दु० टी० ]
भृजा०। असार्वधातुकमात्रे 'भ्रस्जेर्भुज् वा वक्तव्यम्' इत्यस्य संग्रहमाह भ्रस्जेर्भृजिरिहेति व्यवस्थावाचित्वादादिशब्दस्य 'भ्रस्ज्, व्रश्च्, सृज्, मृज्, यज्, राज्, भ्राज्' एते सप्त गृह्यन्ते । अस्मादेव सूत्रनिपातनाद् भ्रस्जेर्भुजादेशो ऽनुमीयते । उपलक्षणमिति न तत्परमित्यर्थः । तेन भ्रस्रूपस्यापि षत्वमित्यर्थः । निपातनस्येष्टविषयत्वादित्यादिना विकल्पं साधयति । सम्प्रसारणविषये तु नैव भृजादेश इत्यर्थः । अथवा मुख्यं सम्प्रसारणं सूत्रोपात्तमुपदेशावस्थायामपि भवति, तद्विषयपरिहारेणैव प्रवर्तते। ‘भृष्ट:, भृष्टवान्’ इत्यगुणे धुटि नास्ति विशेष: । बभर्ज्जतुः, बभर्ज्जुः बभ्रज्ज्तुः बभ्रज्जुरिति नत्रा निर्दिष्टस्यानित्यत्वान्न गुणप्रतिषेधः । बिभर्क्षति, बिभ्रक्षति । बिभर्जिषति, बिभ्रज्जिषति । भष्ट, भ्रक्षीष्ट । अभर्क्षत, अभ्रक्षत इति सनि चानिटि “सिजाशिषोश्चात्मने” (३।५।१०) इति प्रतिपदोक्तस्य गुणप्रतिषेधात् । 'भर्गम्, भ्रग्यम्, भर्ग:' इति । 'भृजी भर्जने' (१।३४६) इति धात्वन्तरेण भौवादिकेन आत्मनेपदिना सिध्यति । एवं 'बाभ्रज्यते, बरीभ्रज्यते ' इति रूपद्वयं केन निवार्यते । 'भ्रस्ज् पाके' (५४) इत्युभयपदी, सिजाशिषोरस्ति विशेष : इति ।। ७३९ ।
[वि० प० ]
भृजादीनाम्० । भृजादीनामित्युक्ते कथं भ्रस्जादीनामित्याह - भ्रस्जेर्भृजिरिहोपलक्षणम् इति। तेन भ्रस्जरूपस्यापि षत्वमित्यर्थः । अत एव सूत्रनिपातनाद् भ्रस्जेर्भुजादेशोऽनुमीयते । तेनासार्वधातुकमात्रेऽस्य विभाषया भृजादेशो न वक्तव्यः । विकल्पस्तर्हि कथमित्याह
-