________________
३१०
कातन्त्रव्याकरणम्
प्रत्यय, 'ई' प्रत्यय, प्रकृत सूत्र से यकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय तथा उसका
लोप ।। ७२५ ।
७२६. नलोपश्च [३ । ६ । ४६]
[सूत्रार्थ ]
‘यिन्—–आयि' प्रत्ययों के परे रहते शब्दगत नकार का लोप होता है। नियमसूत्र के अनुसार 'यिन् - आयि' प्रत्ययों के परे रहते केवल नलोप ही होता है ।। ७२६ । [दु० वृ०]
नकारो लुप्यते येन स नलोपो योगः । अर्थाद् यिन्नाय्योर्नलोप एव करणीयः । विद्वस्यति, विद्वस्यते। एवं राजीयति, पथीयति, पुंस्यतीत्यपि नियमः किम् ? दीव्यतीत्यपि । कथं चतुर्यति, अनडुह्यति, गीर्य्यति, धूर्य्यति । शब्दाश्रयत्वाद् विनियमः । सर्पिष्यति, धनुष्यतीति यत्वं स्यादेव। गोमत्यतीति क्विप् । कथं गोमान् पचन् पुमान् ? यिन्नाय्योर्घुटि प्रत्ययलोपलक्षणस्यानित्यत्वात् । उदनुबन्धशन्नृङ्पुंसामेवेति ।। ७२६ ।
"
[दु० टी० ]
नलोपः । लुप्यते इति लोपः । कर्मणि ञ् । लोपनं लोप:, भिन्नाधिकरणो वा बहुव्रीहिरिति मनसि कृत्वाह नकार इत्यादि । योगोऽभिधीयमानो व्यञ्जनमेव सन्निधापयतीतरस्य च निवृत्तिरित्याह – अर्थादिति । यदि पुर्ननस्य लोपः इति तत्पुरुष उच्यते विधिरयं स्यान्न नियम:, ततश्च 'अग्नीयति, धनीयति' इति नलोप: प्रसज्येत, बहुव्रीह्यर्थमेव पुनर्लोपग्रहणम्, अन्यथा नस्येति विदध्यात् । पुंस्यतीत्यपि इति । अत्रानशब्दग्रहणसामर्थ्याद् अकारस्यापि लोपो भवतीत्यर्थः । दिव्यतीत्यादि । आदिग्रहणेन ‘“विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनाम् ' (२। ३ । ४४) इति प्रभृतय आख्यायन्ते । कथमित्यादि। नकारो हि वर्णस्तदपेक्षया वर्णकार्यस्य निवृत्तिरिति भावः । सर्पिष्यतीत्यादि । नलोपो हि व्यञ्जननिमित्तको व्यञ्जनाश्रितमेव कार्यं व्यावर्तयति । तेन "इसुस्दोषां घोषवति र:” (२। ३। ५९) इति रत्वं न भवतीत्यर्थः । अन्य आह- अपिशब्दस्य बहुलार्थत्वाद् यत्वमेवेति । कथमित्यादि । एवं पचन्तमिच्छति, पुमांसमिच्छतीति यिन्, ततः क्विप् । यिन्नाय्योरित्यादि। ‘“य्वोर्व्यञ्जनेऽये” (४।१ । ३५) इति यलोपे घुड्विषये न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यर्थः। उदनुबन्धशन्तृपुंसामेवेति एवग्रहणेन चीयते:, मधीयते : क्विप्– पथ्यौ, मथ्यौ।। ७२६।
[वि० प० ]
नलोपः । नकारो लुप्यते येनेति नलोपयोगे च प्रायेण व्यञ्जनमेव निमित्तमित्यत्रापि तदेवेत्यन्यस्य निवृत्तिरित्याह- अर्थादित्यादि । तर्हि विप्रत्ययेऽपि व्यञ्जनं स्यादिति ? सत्यम्। एतदर्थमेव गणात् पृथग् आयिरित्युक्तम् इति चेत्, अर्थायत्तत्वाद् योगो ह्यभिधीयमानो व्यञ्जनमेव निमित्तं सन्निधापयति, तत्र नलोपस्य प्रायेण तन्निमित्तत्वादिति । ननु बहुव्रीहिणा य एव योगोऽभिधीयते तेनैव लोप: सिद्ध:, किमर्थमिदम् ? सत्यम्,