________________
३०४
कातन्त्रव्याकरणम्
[दु०वृ०]
आमिड्विकरणादन्यस्मिन् प्रत्यये परे कारितस्य लोपो भवति । अचीकरत्, अचीकमत, अररक्षत्, कार्यते, कारणा, उदपादि, समपादि । परत्वात् यत्त्वादयो बाध्यन्ते । अनामिविकरण इति किम् ? कारयामास, कारयिता, कारयति, अहं कारये । तद्भावादन्तरङ्गत्वाच्च गुण: ।। ७२४ ।
[दु० टी० ]
कारि० । अनामिविकरण इति समाहारद्वन्द्वः । पर्युदासोऽयं नञ् असार्वधातुकविषये भवतीत्यर्थः। अचीकमतेति । कमेरिनङ्, चणि " य इवर्णस्य ० " (३ । ४ । ५८) इत्यादिना यत्वं प्राप्तम् अररक्षदिति । "स्वरादौ ” ( ३ । ४ । ५५ ) इत्यादिना इय् प्राप्तः । कार्यते इति। “नाम्यन्तानां यणायि०” (३ । ४ । ७० ) इत्यादिना दीर्घः प्राप्तः । कारणेति । कारयतेः स्त्रियां यौ गुणः प्राप्तः । उदपादीति । पादयतेरिचि वृद्धिः प्राप्तेत्याह-यत्वादयो बाध्यन्ते इति । ननु कथं ' येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधक:' (व्या० परि० ४२) इत्यस्यान्यत्र विषयत्वात् । याजयतेर्याष्टिः, राधयते : राद्धि:, “घोषवत्योश्च कृति” (४। ६ । ८०) इट्प्रतिषेध: ? सत्यम्, क्तितिकौ न शर्ववर्मकृतौ, अनामिविकरणे इति प्रतिषेधाच्च । 'पूर्वपरयोः परो विधिर्बलवान्' (कलाप०, पृ० २२१ । ५० ) इति वा । अहमित्यादि । कारयतेरेकारे विकरणस्य सन्ध्यक्षरादेशो हि विकरण एवेत्याह-तद्भावादिति ।। ७२४ ।
[वि० प० ]
कारित०। अचीकमतेति । कमेरिनङ् कारितं च चणादि पूर्ववत् । अत्र "य इवर्णस्य०” (३। ४। ५८) इत्यादिना यत्वं प्राप्तम्, अररक्षदिति । "स्वरादाविवर्णोवर्णान्तस्य” (३ । ४ । ५५ ) इत्यादिना इय् प्राप्त: । कार्यते इति । "नाम्यन्तानां यणायि० (३। ४। ७०) इत्यादिना दीर्घः प्राप्तः । कारणेति । "ईषिश्रन्थि० " ( ४ । ५। ८५) इत्यादिना युप्रत्यये गुणः प्राप्तः । उदपादीति । उत्पूर्वस्य पादयते: “भावकर्मणोश्च" (३ । २। ३०) इति इचि कृते वृद्धिः प्राप्नोतीत्याह--यत्वादयो बाध्यन्ते इति । येन नाप्राप्तिन्यायेन परत्वेन वा लोपः प्रवर्तते इति भावः । अहमित्यादि । यदि नित्यत्वादसन्ध्यक्षरविधिः स्यात् तदा स्वरादेशस्य स्थानिवद्भावाद् एकारस्यापि विकरणत्वाल्लोपाभावः । अन्तरङ्गत्वाच्चेति। ‘अन्तरङ्गबहिरङ्गयोरन्तरङ्गविधिर्बलवान्' (का० परि० ५०) इति प्रागेव गुण इत्यर्थः।। ७२४ ।
""
[fão to]
कारि०। तद्भावादिति । स्थानिवद्भावादित्यर्थः । ननु लोपविधौ " न पदान्त०' (का० परि० १०) इत्यादिना निषेधात् कथं स्थानिवद्भाव इत्याह – अन्तरङ्गत्वादिति । येन नाप्राप्तिन्यायादिति । ननु कथमुक्तं यावता याजयतेर्याष्टिः, धारयतेर्धार्त्तिः । यज्धातोरिनि