________________
२६४
कातन्त्रव्याकरणम्
[दु० वृ०]
आदन्तानां धातूनामिचि परे आयिर्भवति । निर्दिष्टस्यातः स्थानिन एवान्तरतम्यात् । अस्थायि अदायि, स्थायिष्यते, दायिष्यते, अस्थायिष्यत, अदायिष्यत, स्थायिषीष्ट, दायिषीष्ट, स्थायिता, दायिता । इड् वेज्वच्चेति ।। ७००।
[दु० टी० ]
आयि०। इकार उच्चारणार्थः । आद् अन्तो येषामिति बहुव्रीहावपि न सर्वस्यायिरादेश इत्याह निर्दिष्टस्यातः स्थानिन इति । तर्हि वक्ष्यमाणमन्तग्रहणमिहैव क्रियताम् ? सत्यम्, प्रतिपत्तिगौरवं स्यात् । यद्येवं किमन्तग्रहणेन 'येन विधिस्तदन्तस्य' (का० परि० ३) इति भविष्यति ? सत्यम्, आयीति लाक्षणिकानामपि यथा स्यात् । इड् वेज्वच्चेति “स्यसिजाशी: श्वस्तनीषु भावकर्मार्थिकासु च । स्वरहनग्रहदृशामिड् वेज्वच्च” इत्यर्थः ।। ७०० । [वि० प० ]
आयिः। ‘अदायिषत' इति अद्यतन्याम् अन्त, सिच्, "आत्मने चानकारात्” (३ । ५। ३९) इति नलोपः । इड् वेज्वच्चेति । " स्यसिजाशीः” इत्यादिना इज्वच्चेत्यर्थः'। ७९० । [समीक्षा]
'अस्थायि अदायि, स्थायिष्यते, स्थायिषीष्ट' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'य्' – विधान की व्यवस्था उभयत्र की गई है। पाणिनि का सूत्र है "आतो युक् चिण्कृतो: ” (अ० ७१३ | ३३) । यह ज्ञातव्य है पाणिनि 'युक्' का आगम करके 'स्थायि' रूप प्रस्तुत करते हैं, जबकि कातन्त्रकार आकारान्त धातुघटित आकार के स्थान में 'आय्' आदेश करके 'स्थायि' बनाते हैं। इस प्रकार सामान्यत: उभयत्र साम्य ही है।
[विशेष वचन ]
१. इकार उच्चारणार्थ : (दु० टी० ) ।
२. प्रतिपत्तिगौरवं स्यात् (दु० टी० ) ।
३. आयीति लाक्षणिकानामपि यथा स्यात् (दु० टी० ) ।
[रूपसिद्धि]
१. अस्थायि। अट् + स्था + इच् + त। 'ष्ठा गतिनिवृत्तौ (१।२६७) धातु से अद्यतनीसंज्ञक आत्मनेपद - प्र० पु० ए० व 'त' प्रत्यय, अडागम, इच् प्रत्यय, प्रकृत सूत्र से आकार को आय् तथा तलोप।
२. अदायि। अट् + दा + संज्ञक 'त' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
३. स्थायिष्यते । स्था + इट् + स्यते। 'ष्ठा गतिनिवृत्तौ ' (१ । २६७) धातु से
-
त। 'डु दाञ् दाने' (२ । ८४) धातु से अद्यतनी