________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
२३९ रजति। कथं परिष्वजेते, अन्तरङ्गत्वात् स्थानिवद्भावाच्च। 'दन्श् दशने' इति निर्देशात् - दशनम्। कथम् अभञ्जि, अभजि ? भजेरिचि भञ्जनेऽपि वृत्तिः।। ६८४।
[दु० टी०]
दन्शि० । गुण्यर्थमिदम्। 'परिष्वजेते' इति अविकरणे कृते 'आते-आथे इति च' (३।६।६३) इतीत्त्वम्, “अवर्ण इवणे ए" (१।२।२) इति एत्त्वे परलोपे सति "परनिमित्तादेश: पूर्वस्मिन् स एव" (का० परि० ४४) इति अविकरण एव नास्तीत्याह - अन्तरङ्गत्वादिति। इत्त्वादयो हि बहिरङ्गा इति ‘अन्तरङ्गबहिरङ्गयोरन्तरङ्गविधिर्बलवान्' (का० परि० ५०) इत्यनुषगलोपो भवति अविकरणमात्रे।
अथ मन्यते 'वर्णाश्रयो विधिरन्तरङ्गः' (का० परि० ८०) इति, तथापि 'वात् प्राकृतं बलीयः' (का० परि० ८१) इति न चेद् वचनमिदं मन्यते तथापि न दोषः। 'स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्' (का० परि० ९) इति परनिमित्तादेश इत्यस्य 'शाले एते, माले इमे' इत्यादिविषयत्वात्। दन्शेरिति। 'याशब्दस्य च सप्तम्या' इत्यवर्णाश्रयत्वाच्चोद्यमत्र नास्तीति। दन्शेर्लुटि न वक्तव्यमित्याह - ‘दन्श् दशने' इति। भावनिदर्शनमिदमुपलक्षणम्। दश्यतेऽनेनेति दशनो दन्तः। करणेऽपि भवति रूढित्वाद् वा। कथमित्यादि। भन्जेरिचि वा वक्तव्यम्। अप्राप्तत्वान्नेत्याह - भन्जेरित्यादि। 'भज सेवायाम्' (१। ६०४) इत्यस्य धातोरिचि विषये भञ्जनेऽपि वृत्तिरभिधीयते। अपिशब्दात् सेवायामपीत्यर्थ:। न केवलम् अभञ्जि इति भवितव्यम्, अभाजि इति च।। ६८४।
[वि० प०]
दन्शि० । 'परिष्वजेते' इति अन्विकरणे कृते "आते आथे इति च" (३। ६। ६३) इतीत्त्वम्। “अवर्ण इवणे ए" (१।२।२) इत्येत्त्वे परलोपे च सति "परनिमित्तादेश: पूर्वस्मिन् स एव" (काः परि० ४४) इति पर एव। न तु “पूर्वोऽन्विकरण:' इति कथमनुषड्गलोप इत्याह – अन्नरङ्गत्वादिति। इत्त्वादयो हि बहिरङ्गा इत्यन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान् इति प्रागेवानुषङ्ग एव लुप्यते। अथवा वार्णत्वादित्यादिकमप्यन्तरङ्गम्, तथापि 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति भविष्यति। अथैतद् वचनं नाद्रियते। अस्तु तर्हि वार्णो विधिरन्तरङ्गस्तथापि अदोष इत्याह-स्थानिवद्भावाच्चेति। "स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति न स्थानिवत्' (का० परि० ९) इत्यर्थः । 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति पुनरस्या: 'शाले एते, माले इमे' इत्यादिविषयत्वादिति दन्शेर्युट्यनुषडलोपो न वक्तव्यः। 'दश् दशने' (१।२९०) इति गणपाठादेव सिद्ध इत्याह – दश दशन इत्यादि भावे युट्, एतदुपलक्षणम् दश्यतेऽनेनेति दशनो दन्त इति करणेऽपि भवति रूढित्वाद् वा। कथम् इत्यादि। एतेन भन्जेरिचि वति न वक्तव्यम्, धात्वन्तरेणेव विकल्पस्य सिद्धत्वाद् इति दर्शितम्। भञ्जनेऽपीति, न केवल सेवायामित्यपिशव्दार्थ: ।। ६८४ ।