________________
२१२
कातन्त्रव्याकरणम्
६. व्यतिलाताम्। वि + अति + ला + अन्ताम्। 'वि + अति' उपसर्गपूर्वक ‘ला' (२। २२) धातु से पञ्चमीसंज्ञक 'अन्ताम्' प्रत्यय, अम्-विकरण का लुक् तथा प्रकृत सूत्र से नकारलोप।। ६७१ ।
६७२. शेते रिरन्तेरादि: [३। ५। ४०] [सूत्रार्थ] 'शीङ्' धातु से परवर्ती 'अन्ते' प्रत्यय से पूर्व 'रि' आगम होता है।। ६७२ । [दु० वृ०]
शेतेः परस्यान्तेरादिरिर्भवति। शेरते, शेरताम्, अशेरत। अन्तिग्रहणम् अन्तिनो रिरादिर्मा भूत्। वेत्तेर्वा वक्तव्यम् – संविदते, संविद्रते।। ६७२।
[दु० टी०]
शेते० । इकार उच्चारणार्थ:। अत्रापि शीडो रिरन्त इति पूर्वोक्ते रेफे नित्ये "शीङः सार्वधातुके" (३। ६ । १८) इति गुणो न स्यात् “स्थानेऽन्तरतमः" (का० परि० १६) इति न्यायाद् एकवर्ण एकारोऽन्तो भवति ‘शेते' इत्यादौ, तस्मात् परादित्वमुच्यते। अवयवावयवः समुदायावयवो भवतीति शीङ: सार्वधातुके गुणो न भवति। शयिष्यन्ते इति। स्येन त्यदाधुत्पत्त्यनुयायिना व्यवधानं पूर्वसूत्रेऽन्तेरिति पृथगेव पदमास्तामिह तदेवानुवर्तिष्यते ? सत्यम्, नकारस्येति सम्बध्येत, ततश्च नकारस्य रिरादिः प्रसज्येत इत्याह – अस्तीत्यादि, आदिग्रहणमागमार्थम् अन्यथा आदेश: स्यात्। 'वेत्तेर्वा वक्तव्यम्' इति, अयं तु नेच्छेत्येव। केचिद् इच्छन्तीति भावः।। ६७२ ।
[वि० प०]
शेते० । शेते: परस्य विसर्जनीयस्य घोषवत्स्वरपर इति रेफे कृते "रो रे लोपं स्वरश्च पूर्वो दीर्घः” (१ । ५।१७) इति। रीति इकार उच्चारणार्थः। शेरते इति। रिरयं परादिरतस्तद्ग्रहणेन गृह्यते इति "शीङ: सार्वधातुके" (३।६।१८) इति गुणो भवति। अशेरत इति। ह्यस्तनी – अन्त। अथान्तेरिति किमर्थम् ? अन्तेर्न इति पूर्वसूत्रे पृथगेव पदमास्ताम्, इह तदेवानुवर्तिष्यते, तदयुक्तम्। एकयोगनिर्दिष्टत्वान्नेत्यपि वर्तते, ततो नकारस्यैव रिरादि: स्यादित्याह-अन्तिग्रहणमित्यादि। वेत्तेरिति! "समो गमृच्छिप्रच्छिस्वश्रुवेत्त्यतिंदृशः” (३। २। ४२-२०) इति रुचादित्वादात्मनेपदम् “सर्वत्रात्मने चानकारात्" (३। ५। २१) इति नलोपः। वक्तव्यं व्याख्येयम्, कश्चिदिच्छति, कश्चिन्नेच्छतीत्यर्थः।। ६७२।
[बि० टी०]
शेते०। 'रि' आगमे सन्धौ ‘र्य' इत्यर्थे रीति नाशक्यते, रीदित्यकरणात्। नि:सन्देहेन तकारोच्चारणं कृत्वा दद्यादित्यर्थः। ननु शेतेरित् तकारो रेफमात्रवर्णस्वरूपे भवति, तेन रीति शङ्का न स्यात्। ततो रिदन्तोऽन्ताविति कथं न कृतम्, अनुशब्द