________________
२१०
कातन्त्रव्याकरणम्
परस्मैपद-प्रथमपुरुष - बहुवचन 'अन्तु' प्रत्यय, अन् विकरण का लुक, धातु को द्विवचन, अभ्यस्तसंज्ञा तथा प्रकृत सूत्र से नकारलोप।
३. जाग्रति। जागृ + अन्ति। 'जागृ निद्राक्षये' (२। ३६) धातु से वर्तमानासंज्ञक 'अन्ति' प्रत्यय, "जक्षादिश्च'' (३। ३।६) से 'जागृ' की अभ्यस्तसंज्ञा, प्रकृत सूत्र से नलोप तथा “रम् ऋवर्ण:' (१ । २।१०) से ऋकार को रकारादेश।
४. जाग्रतु। जागृ + अन्तु। 'जागृ निद्राक्षये' (२। ३६) धातु से पञ्चमीविभक्तिसंज्ञक प्रथमपुरुष – बहुवचन 'अन्तु' प्रत्यय, अभ्यस्तसंज्ञा, नलोप तथा ऋकार को रकारादेश।। ६७०।
६७१. आत्मने चानकारात् [३। ५। ३९] [सूत्रार्थ]
अकारभिन्न आत्मनेपदसंज्ञक प्रत्यय के परवर्ती होने पर 'अन्ति' के नकार का लोप होता है।। ६७१।
[दु० वृ०]
अनकाराच्चात्मनेपदेऽन्तेर्नकारस्य लोपो भवति। कुर्वते, कुर्वताम्। लुनते, लुनताम्। व्यतिलाते, व्यतिलाताम्। अनकारादिति किम् ? पचन्ते, पठ्यन्ते।। ६७१ ।
[दु० टी०]
आत्मने० । अनभ्यस्तार्थोऽयमारम्भः। अनकारादिति पर्युदासादकारादन्यस्माद् वर्णमात्राद् भवति। न नकारोऽनकार इति न प्रतिपत्तव्यम् – 'आघ्नतः' इत्यादि न सिध्येत्। यदि तदन्तविशेषणमुच्यते प्रकृतत्वाद् धातोरेवेति चेक्रीयित - सन् – कण्डूयादीनामेव प्रतिषेध: स्यात् । न च न विद्यतेऽकारो यस्य धातोरिति बहुव्रीहिः । अन्यथा चक्षिङादीनामेव प्रतिषेधः स्यात्, तदेतद् विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वादिति भावः। “असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३।६। ४०) इति कृतेऽकारलोपोऽन्तिरनकारादिति उच्यते। धातुनिमित्तत्वोपघातार्थमवयवेऽपि समुदायवृद्धिं प्रागेव वा प्रतिषेधः।। ६७१ ।
[वि० प०]
आत्मने । न अकारोऽनकारः इति "स्वरेऽक्षरविपर्ययः" (२। ५। २३) इति। लुनते इति। "क़्यादीनां विकरणस्य" (३। ४। ४३) इत्याकारलोपः। व्यतिलाते इति। "अनियमे चागतिहिंसाशब्दार्थहसः" (३। २। ४२-६६) इति रुचादित्वादात्मनेपदम्। 'पचन्ने, पठ्यन्ते' इति। "असन्ध्यक्षरयोरस्य तौ तल्लोपश्च" (३। ६। ४०) इति वर्णविधावन्तरङ्गे कृते कथमकारादन्तिरिति ? न चोद्यम् इह वचनात् प्रागेव प्रतिषेधस्ततोऽसन्ध्यक्षरविधिः।। ६ ७१ ।
[बि० टी०] आत्मने । ननु अनकाराट् धातोरित्यर्थ: कथन्न स्यात् । तदा हि चेक्रीयित - सन्