________________
कातन्त्रव्याकरणम्
शादेशेन तस्य बाधा स्यादिति चकार उच्यते धिस्तावद् भवति शास्तेश्च शादेश इत्याह-हेर्धिरित्यादि। ननु 'शास्तरच्च' इति कृतेऽदादेशस्यैकवर्णत्वादन्तस्य सकारस्य भविष्यतीति तकारस्योच्चारणार्थत्वात् । ततो दीर्घात् परलोपे सिद्धं शाधीति किं शादेशेन ? न च दीर्घात् परलोपं बाधित्वा शासेरिदुपधाया इतीत्वं भवितुमर्हतीति बहिरङ्गत्वात्। परलोपविधिश्च वार्णत्वादन्तरङ्गत्वम् इति स एव भविष्यतीति । तदयुक्तम्, ‘वार्णात् प्राकृतं बलीय:' (का० परि० ८१ ) इतीत्वमेव स्यात्, अस्तु वा परलोपस्तथाप्येकदेशस्यानन्यवद्भावात् शासेरेवायमुपधाभूतस्य शकारस्येत्वं स्यादित्याह अच्चेत्यादि । सिद्धान्ते तू शादेशविधानादेव न भवति, अन्यथा साध्यमेव विदध्यादिति भावः ।। ६६९ ।
२०८
[बि० टी० ]
शा शा० । ननु शास्तेः परस्य हेर्धिर्भवति शा च भवति । कुत्रापि धि : कुत्रापि शा इति क्रमेण कथं न स्यादिति चेत्, न । शा च शास्तेरित्यकरणात् । अन्यथा आदेशस्य समीपे चकारं दत्त्वा पठितव्यम् । न च वक्तव्यं है: स्थाने आदेशः स्यात् । धातोर्धिरादेशः स्यात्। हे: स्थाने दृष्टो धिभावः कथं धातोः स्यात् ।। ६६९ ।
[समीक्षा]
'शाधि, प्रशाधि ' इत्यादि शब्दरूपों के सिङ्घर्थ 'धि' तथा 'शा' आदेश का विधान दोनों ही व्याकरणों में किया गया है । अन्तर यह है कि पाणिनि केवल शास् को 'शा' आदेश "शा हौ" (अ० ६।४।३५) सूत्र द्वारा करते हैं तथा 'धि' आदेश के लिए उनका सूत्र है – “हुझल्भ्यो हेर्धिः " (अ० ६ । ४ । १०१ ) । परन्तु कातन्त्र में प्रकृत सूत्र द्वारा दोनों ही कार्य किए जाते हैं।
[विशेष वचन ]
१. अच्चेति कृते इत्वं स्यात् (दु वृ० ) ।
२. शाग्रहणमनेकवर्णार्थं भाषायामपि चेक्रीयितलुगन्तस्याभिधानार्थम् (दु० टी०)। ३. शाधीति तिब्निर्देशोऽत्र न चेक्रीयितलुगन्तनिवृत्त्यर्थः, किं तर्हि पाठसुखार्थ: (दु० टी० ) ।
४. तकारस्योच्चारणार्थत्वात् (विपः) ।
[रूपसिद्धि]
१. शाधि । शास् + पञ्चमी-हि। 'शासु अनुशिष्ट (२/३९) धातु से पञ्चमीविभक्तिसंज्ञक परस्मैपद - मध्यमपुरुष एकवचन हि' प्रत्यय, अन् विकरण का लुक्, प्रकृत सूत्र द्वारा 'हि' को 'धि तथा शास् को 'शा' आदेश ।। ६६९ । ६७०. लोपोऽभ्यस्तादन्तिनः [ ३ । ५। ३८ ]
[ सूत्रार्थ ]
अभ्यस्तसंज्ञा से परवर्ती 'अन्त' के नकार का लोप होता है ।। ६३० ।