________________
१७०
कातन्त्रव्याकरणम्
६४३. ऋदन्तानां च [३। ५। ११] [सूत्रार्थ] ___ अनिट् सिच्–विषयक आत्मनेपद तथा आशीविभक्तिक आत्मनेपद प्रत्यय के परे रहते ऋकारान्त धातु को गुणादेश नहीं होता है।। ६४३।
[दु० वृ०]
ऋदन्तानां च धातूनां सिच्यात्मनेपदे आशिषि चानिटि गुणो न भवति। अकृत, अकृषाताम्, कृषीष्ट। अनिटीति किम् ? प्रावरिष्ट, प्रवरिषीष्ट। कथं तृ – अतीष्ट, तीर्षीष्ट। स्तृ - अस्तीष्ट, स्तीर्षीष्ट। पृ - अपूष्ट, पूर्षीष्ट। सिजाशिषोश्चात्मने इड्विकल्पेष्टिरिति, ऋकारस्योपलक्षणत्वात् ।। ६४३ ।
[दु० टी०]
३० । अकृतेति। गुणप्रतिषेधे “ह्रस्वाच्चानिटः' (३।६।५२) इति सिचो लोपः। तपरकरणमसन्देहार्थम्, अन्यथा रन्तानामिति कृते किमयं ह्रस्वो दीर्घो रेफो वेति विप्रतिपद्येत। रेफान्तपक्षेऽप्यनिटीति नाभिसम्बध्यते। तकारे च स्थिते यथाश्रुतऋकारपरिग्रहणाद् दीर्घस्य न प्राप्नोति। “अद्यतन्यां स्वरान्तश्च वा” (३। २। ४२-५१) इति कर्मकर्तृस्थो रुचादिः। अतीष्ट स्वयमेवेति। एवम् अपृष्ट स्वयमवेत्यर्थात् स्वसम्बन्धः। स्तृवस्तु बकारानुबन्धत्वादुभयपदं भवति। विकल्पेष्टिरिति। "ऋद्ववृङां सनीड् वा स्याद् आत्मने च सिजाशिषोः” इति वक्ष्यतीति परिहारमाह - ऋकारस्येत्यादि। ऋकार: सन्निहितम् ऋकारमुपलक्षयतीत्यदोषः। अन्य आह - ऋदन्तानां चेति दीर्घोऽयं पाठ: प्रश्लेषनिर्देशश्च व्याख्यानतोऽवसीयते - ऋश्च ऋच्च ऋतौ। अपर आह - ऋच्च अन्तश्च ऋदन्तौ, अन्तशब्दोऽत्र समीपवाची श्रुतत्वाद् ऋकारस्य समीपे ऋकारो येन विधिस्तदन्तस्येति भावः । ऋवर्ण इति न कृतं वैचित्र्यार्थम्। सूत्रकारमतन्तु सिजाशिषोरात्मने ऋतां नित्यम् इडागम इति लक्ष्यते।। ६४३।
[वि०प०]
ऋद० । अकृतेति। "ह्रस्वाच्चानिट:' (३।६।५२) इति सिचो लोपः। कथमित्यादि। किरादिश्रन्थिग्रन्थिसनन्ता: कर्मकर्तस्था: इत्यनवर्तमानेऽद्यतन्यां स्वरान्तश्च वेति रुचादित्वात् कर्मकर्तर्यात्मनेपदम्, तेन 'अतीष्ट स्वयमेव' इति योज्यम्। स्तृणातेस्तु अनुबन्धत्वादुभयपदमस्त्येव। एवम् अपूष्ट स्वयमेवेति। आशिषि तु भावकर्मणोरात्मनेपदम् । सिजाशिषोरिति।
"ऋढ्बृजां सनीड् वा स्यादात्मने च सिजाशिषोः। संयोगादेतो वाच्यः सुडसिद्धो बहिर्भवः' इति वक्ष्यति। तेनेटो विकल्पेष्टिरित्यनिटत्वं पक्षे। परिहारमाह - ऋकारस्येति। ऋकार: सन्निहितमेव सवर्णम् ऋकारमुपलक्षयतीति, तेनागुणत्वात् "ऋदन्तस्येरगुणे, उरोष्ठ्योपधस्य" (३।५४२) इति यथायोगं प्रवर्तते।। ६४३ ।