________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
१६५
८४)। अभ्यस्ताधिकारेऽपि न दोषः । यद्यपि सनः सकारेण सह द्विर्वचनम्, तथापि अभ्यस्तस्यैकदेशोऽप्यभ्यस्तमिहोच्यते । "द्वयमभ्यस्तम्” (३ । ३ । ५) इत्यत्र समुदायो निर्दिश्यते, न व्यक्ति: । 'द्वे' इत्यकरणात् कुतः सन्युपधाया गुण इति । जिघृक्षतीति । 'ग्रह उपादाने' (८ । १४) । " ग्रहिस्वपिप्रच्छां सनि" ( ३ । ४ । ९) इति सम्प्रसारणम् । चकारादित्यादि । नामिशब्देन सह चकारः सम्बन्धनीयः । अनामिनश्चेति । क्वचिदित्यनेनेष्टविषयतां दर्शयति। गतानुगतिकन्यायेन व्याख्येयम्, युक्तिस्तु तत्राभ्यासलोपविधौ निरनुषङ्गं पठित्वा दम्भेरनुषङ्गलोपं बोधयति ।। ६४१ ।
[वि० प० ]
सनि०। बिभित्सतीति। ‘भिदिर् विदारणे' (६ । २) । दित्सति । ‘डु दाञ् दाने' (२। ८४)। सनि द्विर्वचनम्। "सनि मिमी ० (३। ३। ३९) इत्यादिना स्वरस्येस्, अभ्यासलोपश्च । "सस्य सेऽसार्वधातुके त:" (३ । ६ । ९३) । “शंसिप्रत्ययादः’ (४|५| ८०), “स्त्रियामादा” (२ । ४ । ४९ ) । एवं 'भुज पालनाभ्यवहारयो:' (६ । १४), "ग्रह उपादाने” (८ । १४), "ग्रहिस्वपिप्रच्छां सनि" (३ । ४ । ९) इति सम्प्रसारणे "हो ढः " (३ । ६ । ५६) इति कृते पूर्ववदादिचतुर्थत्वं घकारः, "ग्रहगुहो : सनि ” ( ३ । ७। ३१) इत्यनिट् । चकारा - दित्यादि । अधिकृतेन नामिग्रहणेन चकारः सम्बध्यते, तेन नामिनोऽन्यस्य चेत्यर्थः। क्वचिदिति इष्टविषयतां दर्शयति तेन दम्भेर्नकारलोपो भवति । दम्भितुच्छतीति सन्। “इवन्तर्द्ध०” (३ । ७ । ३३) इत्यादिना पक्षे इडागमः । "दन्भेरिच्च" (३ | ३ | ४१) इतीकारोऽभ्यासलोपश्च, आदिचतुर्थत्वम्, पूर्ववद् दकारस्य धकार: ।। ६४१ ।
""
[बि० टी० ]
सनि० ० । ननु " भृजादीनां ष: " ( ३ । ६ । ५९) इत्यत्र कथं 'बिभक्षति' इत्यत्र गुणत्वे ‘“सनि चानिटि” (३ । ५ । ९) इति गुणनिषेधात् तत्राह - टीकालाक्षणिकत्वान्निषेधः। तर्हि यथा ‘बिभर्क्षति' इत्यत्र लाक्षणिकत्वाद् गुणप्रतिषेधाभावस्तथा दित्सतीत्यत्र गुणप्रतिषेधाभावे गुणः स्यात् । अत्र सिद्धान्त एव नास्तीति केचित् । अत्राह कश्चित् "नाम्युपध०” (४। २ । ५१ ) इति धातोर्विशेषणं धातुः समुदायो लाक्षणिकोऽपि विद्यते । यत्र समुदायो लाक्षणिकस्तत्र 'लक्षणप्रतिपदोक्तयो० ' (का० परि० ७५) इत्यादिना गुणप्रतिषेधाभावः । अयमेव लाक्षणिक प्रतिषेधोऽपि अत एव टीकास्वरसात् । पण्डितस्त्वेवमाह अङ्गीकारवादोऽयं बिभर्क्षति' इत्यत्र कथं गुण इत्यनेन किमाक्षिप्यते लाक्षणित्वादिह गुण:, यदि दित्सेत्यत्र कथन्न गुण इत्युच्यते, तदा अन्यप्रकारेण साधयामि, तस्य प्रकारं किमिति चेदादेशस्य इकारकरणसामर्थ्यात् । अन्यथा एकार एव निर्देश्यो न हि इकारकरणस्यान्यत् प्रयोजनमस्तीति ।। ६४१ ।
[समीक्षा]
'दित्सा, बुभुक्षते, जिघृक्षति' इत्यादि शब्दरूपों के सिद्ध्यर्थ धातुघटित इकारादि वर्णों के गुणनिषेध की अपेक्षा होती है। इसकी पूर्ति दोनों व्याकरणों में की गई है। दोनों
-