________________
१६३
तृतीये आख्याताध्याये पञ्चमो गुणपादः ६४०. अभ्यस्तस्य चोपधाया नामिनः स्वरे गुणिनि
सार्वधातुके [३। ५। ८] [सूत्रार्थ]
अभ्यस्तसंज्ञक धातु के अन्तर्गत उपधासंज्ञक तथा नामिसंज्ञकवर्ण को गुण आदेश नहीं होता है गुणी स्वरादि सार्वधातुकसंज्ञक प्रत्यय के परे रहते।। ६४०।
[दु० वृ०]
अभ्यस्तस्य चोपधाया नामिनः स्वरादौ गुणिनि सार्वधातुके परे गुणो न भवति। नेनिजानि, अनेनिजम्, विशेषनामिग्रहणाद् ‘जजनानि' इत्यलोपो न स्यात्। एवम् उत्तरत्रापि योज्यम्। गुणिनीति किम् ? गुणिन्यपि गुणो मा भूत् – अनेनिजुः।। ६४० ।
[दु० टी०]
अभ्यस्त० । अभ्यस्तस्येति किम् ? वेदानि। उपधाया इति किम् ? जुहवानि । किमर्थं पुनरिह नामिग्रहणम्, प्राप्तिपूर्वकत्वात् प्रतिषेधस्य नामिन एव भविष्यति। न हि अनामिनो गुण: संभवति यद्विशेषनामिग्रहणं तन्नामिद्वारेणैव गुणनिषेधार्थम्, अन्यथा यणादिवत् सामान्येनागुणकार्य प्रसज्येत। ततश्च “गमहनजन०" (३। ६। ४३) इत्यादिना जनेरप्युपधालोप: स्यादिति भावः। एवमुत्तरत्रापि योज्यमिति। बिभ्यत्सतीति। "सनि चानिटि" (३। ५ । ९) इति व्यधे: सम्प्रसारणं न भवति। अभङ्क्तति। सिच्यात्मनेपदेऽनुषङ्गलोपो न भवति। गुणिनीत्यादि। अभ्यस्तानामुसीति। अनेन प्रतिषेधविषये आरभ्यमाणो गुण: प्रतिषिध्यते इति भावः।। ६४०।
[वि० प०]
अभ्यस्त० । नेनिजानीति। 'निजिर् शौचपोषणयोः' (२। ८१) जुहोत्यादिरयम्। "निजिविजिविषां गुणः सार्वधातुके" (३। ३। २३) इत्यभ्यासे गुणः। अथ नामिग्रहणं किमर्थम्, न ह्यनामिना गुण: सम्भवति, अर्थान्नामिन एव गम्यते इत्याह-विशेषेत्यादि। नामिन इति यद् विशेषणं तन्नामिद्वारेणैव गुणप्रतिषेधार्थम्। अन्यथा यणादिवत् सामान्यनागुणकार्य प्रसज्यत, ततो “गमहनजनखन०"(३।६। ४३) इत्यादिना जनेरुपधालोप: स्यादित्यर्थः। एवमुत्नरत्रापि योज्यम् इति। बिभ्यत्सतीत्यगणत्वमनिट: सनो न भवति नामिनोऽसम्भवाद् गुणित्वे सति सम्प्रसारणं न स्यात्। 'व्यध ताडने' (३। २५), पूर्ववदादिचतुर्थत्वम् बकारस्य भकारः, तथा “सिजाशिषोश्चात्मने" (३। ५। १०) इत्यत्र अभङ्क्तेति भञ्जरनुषङ्गलोपो न भवति। अथ गणिग्रहणं किमर्थ न ह्यत्राणिनि गुणप्राप्तिरित्याह-गुणिन्यपीत्यादि। “अभ्यस्तानामुसि" (३ । ५। ६) इति विशेषवचनेन यस्य गुणित्वमुक्तम्, तस्मिन्नपि गुणो मा भूदित्यर्थः। अन्यथा यथा “द्वित्वबहुत्वयोश्च परस्मै" (३। ५ । १९) इति प्रतिषेधस्यायमपवादः। एवमन्यत्रापि स्यादिति भावः।। ६४० ।