________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
१६१ स्थितिमानस्ति। अर्थादनुबन्धोऽवगम्यते। न च वक्तव्यम्, णकारोपदेशाद् धातोश्चेक्रीयितान्तस्य धातोरगुणो भवतीत्यर्थ: कथन स्यात्, यणादीनां णकारानुबन्धसामर्थ्यान्नहि तस्य णकारानुबन्धेऽन्यत् फलमस्ति? सत्यम्। सुखार्थमनुबन्धग्रहणम्। वस्तुतस्तु यणादौ णानुबन्धमन्तरेण "यणाशिषोर्ये" (३। ४। ७४; ६। १३) इति दुर्घटनीयं स्यात्। ननु यणानु-- बन्धयोरिति क्रियताम्, यकारादौ प्रत्यये णानुबन्धप्रत्यये च गुणो न भवतीत्यर्थः। एवं सति "आशिषि च परस्मै सप्तम्यां च" (३। ५। २२) इति न कृतं स्यात्, यकारादिद्वारेण सिद्धत्वात्। तर्हि घ्यणो यकारेऽपि अगुणत्वं स्याद् इति चेत्, न। इज्वभावकरणसामर्थ्यात्। न च वक्तव्यम्, भव्यमित्यत्र “स्वराद् यः” (४। २। १०) इति कृतेऽपि तत्रागुणत्वं स्यात्। क्यप: ककारकरणं किमर्थम्, कानुबन्ध गते सति यकारस्यानेनैवागुणत्वं सिद्धम्। तस्मात् ककारकरणेन बोधयति-कृयकाराणां मध्ये क्यपो यकारस्यैवागुणत्वम्, नान्ययकारस्य।
ननु यपि सति तोऽन्तो नास्ति, क्यपो व्यनुबन्धकत्वाद् इत्युक्तम्। “हनस्त च" (४।२।२२) इत्यत्र तदर्थं क्रियमाणं ककारग्रहणं कथं नियमार्थं भविष्यति चेदयुक्तम्, "हनस्त च" (४।२।२२) इत्यत्र नकारग्रहणं च न क्रियताम्, हन्धातार्यबेव विधीयताम्, हन्धातोरपि पञ्चमलोपे पानुबन्धत्वात् तकारागमे सति प्रत्यय इति सिद्धं किं तकारग्रहणेन तस्मान्नियमार्थो भविष्यति, तर्हि अन्यत्र दूषणं स्यात्। तृणु दाने' (७५)। तृणुधातो: "ऋदुपधाच्चाक्लुपितेः" (८।२।२४) इत्यनेन क्यपि कृते नकारलोपे तृण्यम्, एवं मन्धातोश्च ‘मन्या' इति प्रयोगो न स्यात्, तम्माट् ट्यनुवन्धार्थ एव ककारग्रहणम् । तस्मात् “स्वराद् यः" (४। २। १०) इति प्रत्यय गणत्वं स्यादिति चक्रीयितग्रहणम्, तथापि व्यर्थम् “ओदौद्भ्यां कद् यः स्वरवत्' (४।१। ३१) इति निर्देशात्। यदि यकारे परे गुणो न स्यात् तदा ओकागत् परो यकारो न विद्यते, तस्माद् ओकारकरणेन बोधयति यप्रत्ययस्य गुणित्वम्। किञ्च क्यप: कानुबन्धकरणं नियमार्थ भविष्यति।
___ एतदर्थे क्रियमाणमेतस्मिन्नेव प्रयोजनं भविष्यति? सत्यम्, प्रतिपत्तिगौरवनिरासामिति चेक्रीयितग्रहणं सप्तम्यां चाशिषि च परम्मै इति च। ननु अनेनागुणो भवन् नाम्यन्तानां नाम्युपधानां च भवितुमुत्सहते प्रतिषेधस्य प्राप्तिपूर्वकत्वात् कुतः 'नस्यते' इत्यादावनुषङ्गलोप:? सत्यम्। “अभ्यस्तस्य चोपधाया नामिनः स्वरे" (३। ५। ८) इत्यत्र नामिग्रहणं नामिन एव गुणनिषेधार्थमिति वक्ष्यति। तेनोनरत्र 'अस्थात्' इत्यादौ नागुणत्वं तच्चैतत् सामान्यं ज्ञापयति, तथा च विशेषनामिग्रहणाट् 'जजनाति' इत्यलोपो न स्यादिति।।६३९।
[समीक्षा
'अपुषन्, नीयते, दुप्यते, नरीनृत्यते' आदि प्रयोगों के सिद्ध्यर्थ धातुओं में गणनिषध की आवश्यकता होती है, इसकी पूर्ति दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है- “क्डिति च'' (१ | 7 )। तदनुसार अन्तर यह है कि पाणिनि ने प्रत्ययों में जहाँ 'क-' अनबन्ध लगाए हैं, उनके लिए कातन्त्रकार ने 'ण' अनुबन्ध की योजना की है।