________________
१५४
तृतीये आख्याताध्याये पञ्चमो गुणपादः
एव व्यक्तौ प्रत्ययश्चावश्यं भावीति। भेत्तेत्यादि। “सनि चानिटि" (३। ५। ९) इति प्रतिषेधो ज्ञापयति-प्रत्ययव्यञ्जनसंयोगे यद् गुरुत्वं तल्लघोरुपधाया गुणस्य न बाधकमिति वर्णयन्त्येके। 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति वा संयोगात् प्राक् प्रकृतेरयं गुणः। नामिन इति किम् ? पठिता। उपधाया इति किम् ? रुणद्धि। लघोरिति किम् ? धूपिता।। ६३४।
[वि० प०] __नामिनः । ननु प्रत्ययस्य व्यञ्जनसंयोगे सति धातोर्गुरूपधत्वात् कथं गुण इत्याह - 'भत्ता. छेत्ता' इति। प्रत्ययो निमित्तं धातश्च नैमित्तिकः, ततः प्रत्यये निमित्ते पूर्वस्य नैमित्तिकस्य धातोरुपधैव इकारः, न तूपधोपधेति। एतदुक्तं भवति, यद्यपि परगमनं प्रवृत्तं तथापि यावन्नैमित्तिको भागस्तदपेक्षया लघूपधत्वमस्त्येव। यदपेक्षया च गुरूपधत्वं तन्निमित्तं नैमित्तिकाद् बहिरिति न दोषः। ननु चकार: किमर्थः, नहि नाम्यन्तानकर्षणमिह युज्यते पूर्वेणैव सिद्धत्वादित्याह - चकार उत्तरार्थ इति। तेनोत्तरत्र सूत्रे नाम्यन्तानुवृत्तिरपि सिद्धा, अन्यथा अनन्तरत्वाद् ‘उपधायाः' इत्येतदेवानुवर्तते इति।। ६३४।
[बि० टी०]
नामिनः । ननु उपधेति स्त्रीलिङ्गत्वाद् "नामिनो लघोः" इति कथमुपपद्यते। न च वक्तव्यं नामिन एव विशेषणम् उपधाया लघोरिति च धातोरुपधाया लघोरिति विशेषदर्शनात् ? सत्यम्। नामिन एव विशेषणं यद् वृत्तौ विवृतं तत् तात्पर्यार्थमिति शेषः। भेत्ता, छेत्तेति। ननु कथमयं राद्धान्तो दत्तः, गुरूपधत्वात् कथं गुणप्राप्तिः। सिद्धान्तमाह-धातोरुपधैव। तस्मादन्यः पूर्वपक्षोऽसिद्धान्तोऽयुक्तः। पुनरयं वक्रोक्त्यार्थी बोधयितुं पार्यते। यथा इयं देवी मानुषी वेति प्रश्नः। तत्राह – चक्षुषी न निमीलयति। अत एव देवी मानुषी नेति प्रतिपादयति, तथात्र धातुश्च नैमित्तिक इति । ननु कथमिदमुक्तं निमित्ते भवो नैमित्तिक इति प्रत्ययेन धातोर्जन्माभावात् ? न देश्यं संसृष्टार्थे इकण् प्रत्ययेन संसृष्टत्वादित्यर्थ: ।। ६३४।
[समीक्षा]
'भेदनम्, कोषिता, वर्तिष्यते, भत्ता' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में गुणविधान किया गया है। पाणिनि का सूत्र है – “पुगन्तलघूपधस्य च (अ० ७। ३। ८६)। अत: उभयत्र समानता है।
[विशेष वचन] १. चकार उत्तरार्थ: (दु० वृ०)।। २. धात्वधिकारोऽन्न वर्तते एव (दु० टी०)। ३. नामिन एव विशेषणं यद् वृत्तौ विवृत्तम्, तात्पर्यार्थमिति शेष: (बि० टी०)। [रूपसिद्धि] १. कोषिता। कुष् + इट् + ता। 'कुष निष्कर्षे' (८ । ४०) धातु से श्वस्तनीसंज्ञक