________________
१२२
कातन्त्रव्याकरणम्
[विशेष वचन ]
१. एकवाक्यतायां लघुप्रतिपत्यर्थं स्वरूपविशेषणम् (दु० टी० ) । २. तस्मादिकारकरणान्न दीर्घ इति सम्प्रदायविदः (बि० टी० ) ।
[रूपसिद्धि]
१. क्रियते। कृ + यण् + ते। 'डु कृञ् करणे' (७। ७) धातु से कर्म अर्थ में वर्तमानासंज्ञक आत्मनेपद ते प्रत्यय, "सार्वधातुके यण्" (३ । २ । ३१) सूत्र द्वारा यण् प्रत्यय, ‘ण्’ अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र द्वारा इकारागम तथा "रमृवर्णः”. (१ । २ । १०) से ऋ को र आदेश । र्
२. क्रियात् । कृ + आशी:- यात् । 'डु कृञ् करणे' (७/७) धातु से आशीर्विभक्तिसंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन 'यात्' प्रत्यय, प्रकृत सूत्र से इकारागम तथा ऋकार को रकारादेश ।। ६१३ ।
६१४. गुणोऽर्त्तिसंयोगाद्यो: [ ३।४।७४]
[सूत्रार्थं]
यण् प्रत्यय तथा आशीर्विभक्तिसंज्ञक प्रत्यय - घटित 'य' के परे रहते 'ऋ' धातु एवं संयोगादि-धातुघटित ऋकार के स्थान में गुणादेश होता है । ।
६१४ ।
[दु० वृ०]
अर्त्तेः संयोगादेश्च धातोर्ऋतो यणाशिषोर्ये परे गुणो भवति । अर्यते, अर्यात् । स्मर्यते, स्मर्यात्। ‘असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति । संस्क्रियते, संस्क्रियात् ।। ६१४।
[दु० टी० ]
गुणो०। पूर्वस्यापवादोऽयम्। 'ऋ प्रापणे' (१।२७५) इति भ्वादौ, 'ऋ सृ गतौ' (२। ७४) इति जुहोत्यादौ। तिपा स्वरूपं निर्दिश्यते इति विशेषणस्याभावाद् विकरणो नोपपद्यते, जौहोत्यादिकत्वाच्च न द्विर्वचनमिति । 'ऋ' इति सिद्धे अर्त्तिनिर्देश: श्रुतिसुखार्थ एव। असिद्धमित्यादि। बहिरङ्गत्वं सुटो द्विपदाश्रयत्वाद् गुणस्य त्वन्तरङ्गत्वमेकपदाश्रयत्वादिति न करोतेः सुटि कृते संयोगादिरित्यर्थः । य इति किम् ? ऋषीष्ट, स्मरीषीष्ट । अरिति सिद्धे गुणग्रहणं वैचित्र्यार्थम् ।। ६१४ ।
[वि० प० ]
गुणो० । “सुड् भूषणे सम्पर्युपात्" (३।७।३८) इति सुटि कृते संयोगादित्वमस्तीत्याह – असिद्धमित्यादि । सुटः पुनर्बहिरङ्गत्वमुभयपदाश्रितत्वादिति । गुणस्यान्तरङ्गत्वमेकपदाश्रितत्वादिति, तेन इकारागमः पूर्वेण भवतीति ।। ६१४ ।
[बि० टी० ]
गुणोऽर्त्ति०। 'ऋत:' इति कृते सिध्यति भौवादिकादादिकयोर्ग्रहणम्। तिप्–निर्देशः सुखार्थ एव। ‘अर्’ इति सिद्धे गुणग्रहणमपि तथैव । ननु 'निष्क्रियते' इत्यत्र कथं गुणो