________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद:
१०१
२. जुह्वतु। हु + अन्लुक् + पञ्चमी-अन्तु। 'हु दाने' (२।६७) धातु से पञ्चमीविभक्तिसंज्ञक 'अन्तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ६०० ।
६०१. भुवो वोऽन्तः परोक्षाग्द्यतन्योः [३३६१] [सूत्रार्थ]
परोक्षा–अद्यतनीविभक्तिसंज्ञक स्वरादि प्रत्ययों के परवर्ती होने पर 'भू' धातु के अन्तिम ऊकार को वकारादेश होता है।। ६०१ ।
[दु० वृ०]
भुवो धातोरन्तो वकारो भवति परोक्षाद्यतन्योः स्वराद्योः परत:। बभूव, बभूवतुः, बभूवुः। बभूविथ, अभूवन्, अभूवम्। पुनर्वकारो गुणवृद्धिबाधनार्थ:। नित्यश्चेदगुणाधिकार: स्यात्। स्वराद्योरिति किम् ? अभूत्, बभूवान्। 'बभूवुषः' इति 'असिद्धं बहिरङ्गमन्तरङ्गे (का० परि० ३३) इति।। ६०१ ।
[दु० टी०]
भवः। पुनर्वकार इत्यादि। “नोर्वकारो विकरणस्य" (३।४।६०) इत्यतो वकारोऽनवर्तते, तेन वकारो वकार इति वकार एव भवतीत्यर्थः। तस्माद् गुणवृद्ध्योः परत्वेऽपि बाधा सिद्धति भावः। ननु च 'नित्यानित्ययोर्नित्यविधिर्बलवान्' (का० परि० ४९) इति वकारागम एवेत्यवस्थान्तरेऽपि स एव भवतीति निमित्तम्, कुतो गणवृद्धिप्रसङ्गः। व्यक्तिपक्षे हि 'शब्दान्तरस्य विधिः प्राप्नुवन्नित्यो भवितुमर्हति' (व्या० परि० ७७) इति? नैवम्, पूर्वसूत्रे गुणाधिकारः सम्बध्यते, व्यावृत्ते: सम्भवात्, तथात्रापीत्युवादेशस्यैव बाधकः स्यादिति पुनर्वकार उच्यते। ननु च “य्वोर्व्यञ्जनेऽये" (४।१। ३५) इत्यनेन लोपो भविष्यति, स्वरानुवर्तनेन किम् ? सत्यम्, विधानबलाद् वकारस्य स्थितिरेव मन्यते।। ६०१ ।
[वि० प०]
भुवो० । अभूवन्निति। "इण्स्था०" (३।४।९३) इत्यादिना सिचो लुक्। पुनरित्यादि। पूर्वसूत्राद् वकारानुवर्तनाद् वकारो वकार इति किमुक्तं भवति-वकार एवेति। तेन बभूविथेति गुणस्य, बभूवेति वृद्धश्च परत्वेऽपि बाधा सिद्धेति। अथ कृताकृतप्रसङ्गित्वेनाधिकृत एव वकारो नित्यत्वाद् भवन् गुणवृद्धी बाधिष्येते, किं पुनर्वकारेणेति चेत् तर्हि पूर्वसूत्रसम्बद्धोऽगुणाधिकारोऽपि स्यात्। तस्मात् पुनर्वकारेणासौ निवर्त्यत इति । बभूवान् इति क्वन्सुः, अस्य च परोक्षावद्भावो द्विर्वचनादिकं भवतीति। अथ “अघुट्स्वरादौ सेट्कस्यापि" (२।२।४६) इत्यादिना वन्सेर्वकारस्योत्वे स्वरादित्वमस्तीति न कथं वकारागम इत्याह – बभूवुष इति। वकारागमे प्रकृत्याश्रितत्वाद् अन्तरङ्गे कर्तव्ये बहिरङ्गमुत्वमसिद्धं भवतीत्यर्थः। उवादेशे तु कर्तव्ये सिद्धम्, अनित्यत्वादस्याश्च परिभाषाया इति।। ६०१ ।
[समीक्षा]
'बभूव, अभूवन्, अभूवम्' इत्यादि प्रयोगों के सिद्धयर्थ 'भू' धातु के अनन्तर वकार की आवश्कता होती है। इसकी पूर्ति कातन्त्रकार ने वकारागम से तथा पाणिनि