________________
कातन्त्रव्याकरणम्
[विशेष वचन] १. मन्दमतिबोधार्थमेव विकरणग्रहणम् (दु० टी०)। [रूपसिद्धि]
१. प्राप्नुवन्ति। प्र + आप् + नु-विकरण + वर्तमाना - अन्ति। 'प्र' उपसर्गपूर्वक 'आप्ल व्याप्तौ' (४। १४) धातु से वर्तमानाविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'अन्ति' प्रत्यय, “नुः ष्वादेः'' (३। २। ३४) से 'तु' विकरण, प्रकृत सूत्र द्वारा नु-विकरणगत उकार को उवादेश तथा समानदीर्घ।
२. प्राप्नुवन्तु। प्र + आप् + नु-विकरण + पञ्चमी-अन्तु। 'प्र' उपसर्गपूर्वक 'आप्ल व्याप्तो' (४। १४) धातु से पञ्चमीसंज्ञक 'अन्तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
३. शक्नुवन्ति। शक् + नु–विकरण + वर्तमाना–अन्ति। ‘शक्ल शक्तौ' (४। १५) धातु से वर्तमानासंज्ञक 'अन्ति' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।
४. शक्नुवन्तु। शक् + नु + अन्तु। 'शक्ल शक्तौ' (४। १५) धातु से पञ्चमीसंज्ञक प्रथमपुरुष-बहुवचन ‘अन्तु' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५९६ ।
५९७. य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य [३।४।५७] [सूत्रार्थ
अनेक अक्षरों वाली धातु के अन्तर्गत असंयोगपूर्व इवर्ण के स्थान में यकारादेश होता है, अग्ण स्वरादि प्रत्यय के परे रहते।। ५९७ ।
[दु० वृ०]
अनेकाक्षरस्य धातोर्य इवर्णस्तस्यासंयोगपूर्वस्य यकारो भवति स्वरादावगणे प्रत्यये परे। विव्यतुः, विव्युः, निन्यतुः, निन्युः। दिग्यिरे, निन्यिरे। असंयोगपूर्वस्येति किम् ? शिश्रियतुः, चिक्रियतुः। अनेकाक्षरस्येति किम् ? अधीयते।। ५९७ ।
[दु० टी०]
यः। न विद्यते संयोग: पूर्वो यस्माद् इवर्णादिति, न विद्यते एकमक्षरं यस्य धातो-- रिति। नन किमिति धातग्रहणम् उत्तरार्थमेवेत्युक्तम। न च धातग्रहणमन्तरण लिङ्गमिह संभाव्यते, एवं तर्हि इवर्णो योऽसावसंयोगपूर्वस्तदन्तस्यानेकाक्षरस्य यत्व विधीयते - 'अधीयते' इत्यत्रापि स्यात्। अथ महाधात्वधिकाराद् धातुरस्तोति, तर्हि सर्व धातोरेव विशेषणं स्यात् । इवर्णान्तस्यानेकाक्षरस्यासंयोगपूर्वस्यति। ततश्च 'व्यशिश्वियत्' इत्यत्र धातो: पूर्वो व्यशब्द: संयोग इति प्रतिषेध: स्यात् – 'शिश्रियतुः, चिक्रियतुः इत्यत्र य एव स्यादिति धातुग्रहणं व्यधिकरणषष्ठीप्रतिपत्त्यर्थं भविष्यति विशेषणविशेष्यभावस्येप्टत्वाद् इत्यपि प्रतिपत्तिगौरवम्। असंयोगाद् इति सिद्धे पूर्वग्रहणं स्पष्टार्थम् । नेति सिद्धे यकारादश: सवार्थः - 'चिक्यिरे, निन्यिरे'। अन्यथा सवर्णे केन यत्त्वं स्यादिति। इवर्ण इति किम् ? नुनुवतुः, नुनुवुः ।। ५९७ ।