________________
३९८
कातन्त्रव्याकरणम्
५३०. चरफलोरुच्च परस्यास्य [३।३।३३] [सूत्रार्थ]
चेक्रीयितसंज्ञक 'य' प्रत्यय के परे रहते ‘चर-फल' धातुओं के अभ्यासान्तवर्ती अकार को अनुस्वारागम तथा उससे परवर्ती अकार को उकारादेश होता है ।।५३०।
[दु० वृ०]
चरफलोश्चेक्रीयिते योऽभ्यासस्तस्यातोऽन्तोऽनुस्वारो भवति, परस्यास्योच्च भवति । चंचूर्यते, चंचुरिता । पंफुल्यते, पंफुलिता ।। ५३०।
[दु० टी०]
चर० । 'अभ्र वभ्र मन चर रिवि रवि पवि गत्यर्याः' (१।१८९), 'फल निष्पत्तौ' (१।१७६), 'दल त्रिफला विशरणे' (१।१६५)। द्वयोरपि ग्रहणमत्र 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इति नाद्रियते । चकारोऽनुवर्तते सविशेषणार्थस्य समुच्चयार्थस्येति एके । गर्हितं चरति चंचूर्यते । “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घो भवत्येव । तपरकरणं सुखनिर्देशार्थम् । यस्तु चेक्रीयितलुगन्तं भाषायाम् इच्छति स आह - तपरत्वात् 'पंफुल्ति' इत्यत्र गुणो न भवति । यद्येवं 'चंचूर्ति' इत्यत्र दीर्घमपि बाधेत, तदा प्रतिषेधोऽयं भवति । परग्रहणमभ्यासनिवृत्त्यर्थम् | अकारग्रहणं चरिफलिभ्यां 'येन विधिस्तदन्तस्य' (का० परि० ३) इति निवृत्त्यर्थम् । अस्येति किम् ? फलन्तं प्रयुङ्क्ते फालयतीति फालयते, क्विप्, तदन्ताद् "आयेश्व लोपः" इति मतम्, ततश्चेक्रीयितं चाफाल्यते, चाफालीति । 'एकदेशविकृतस्यानन्यवद्भावात्' (का० परि० १) फालोऽपि प्राप्नोतीति || ५३०।।
[वि० प०]
चर० । 'चंचूर्यते' इति । "नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः, 'फल निष्पत्ती, दल नि फला विशरणे' (१।१७६, १६५) वा । न ह्यत्र ‘निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४८) इत्यादृतम् ।। ५३०।
[वि० टी०]
चर० । परग्रहणमभ्यासनिवृत्त्यर्थम् । अस्येति पदं चरफलोरन्तस्य मा भूद् इत्येतदर्थम् उपधादीर्घस्यापि निवृत्त्यर्थम् । यथा फलन्तं प्रयुक्ते फालयति, ततः क्विप्, तदन्तादायिः, आयेश्च लोपः । ततश्चेक्रीयिते पाफाल्यते । लुप्ते च पाफालीति | एकदेशविकृतस्यानन्यवद्भावात् प्राप्नोतीत्यर्थः । उदिति । तपरकरणं सुखप्रतिपत्त्यर्थम् ।