________________
३८०
कातन्त्रयाकरणम्
५२३. सन्यवर्णस्य [३।३।२६] [सूत्रार्थ]
सन् प्रत्यय के परे रहते अभ्याससंज्ञक अकार को इकारादेश होता है ।। ५२३।
[दु० वृ०]
सनि परे योऽभ्यासस्तस्यावर्णस्येद् भवति । पिपक्षति, पिपासति । सन्यभ्यासस्येति किम् ? पापचिषते ।। ५२३।
[दु० टी०]
सन्य० । पापचिषते इति । पापचितुमिच्छतीति वाक्ये सन् “यस्याननि" (३।६।४८) इति चेक्रीयितलोपे इडागमः । वर्णग्रहणं निर्देशसुखप्रतिपत्त्यर्वम्, अन्यथा अभ्यासविकारत्वाद् दीर्घस्य ह्रस्वत्वे पिपासतीति सिध्यति । 'पूर्वपरयोः परो विपिलवान्' (कलाप०, पृ० २३११५०) इति परशब्दस्येष्टविषयत्वाद् व्यञ्जनावशेषादिके कृतेऽप्येवम् एतदर्शनद्वयमाश्रित्य वर्णग्रहणमिति अन्ये । इहाभ्यासविधौ तदन्तविधेरचोदितत्वाद् "निनिविजिविषां गुणश्चक्रीयिते" (३।३।२३) च नामिन एव गुणग्रहणस्य दृष्टविषयत्वात् । मीमांसते इति परत्वादित्त्वम, ततो दीर्घः । अभ्यासे भवः आभ्यासो वा इकार एवोच्यते, "अत् त्वरादीनां च" (३।३।३७) इति तत्राकारेऽकारस्य लोपाद् वा, वेष्टि-चेष्टि ईच्च गण इति मतान्तरम् ।। ५२३|
[वि० प०]
सन्य० । वर्णग्रहणाद् दीर्घस्यापि भवति तेन पिपासति, ननु चाभ्यासविकारत्वाद् हस्वे सिध्यति किं वर्णग्रहणेन ? सत्यम्, निर्देशसुखप्रतिपत्त्यवं वर्णग्रहणम् । पापचिषते इति पापच्यशब्दाच्चेक्रीयितान्तात् पापचितुमिच्छतीति सन्, अस्य च लोपे “यस्याननि" (३।६।४८) इति यलोपः, इडागमश्च । इह सनः श्रुतत्वात् सनि योऽभ्यासस्तस्य भवति । अयं तु चेक्रीयितेऽभ्यासः पश्चात् सन् ।। ५२३।
[बि० टी०]
सनि० । सनीत्यादि० । ननु हस्वत्वे कृते सति सिध्यति किं वर्णग्रहणेनेति वक्तुं युज्यते । कथम् अभ्यासविकारत्वाद् इति हेतुः, वर्णग्रहणाभावे ह्रस्वोऽन्त्यस्यैव प्राप्नोति । सन्यभ्यासविकारत्वादित्यवर्णग्रहणेऽपि दीर्घस्यापि कार्यमिति हेमकरः। केचिद् इदमाचक्षते अवर्णग्रहणे सत्त्वेऽपि अभ्यासविकारत्वाद् ह्रस्वत्वेऽपि सिध्यति, तदा किं वर्णग्रहणेनेति, निर्देशसुखप्रतिपत्त्यवं वर्णग्रहणमिति । ननु अकारकरणमपि व्यर्थम्,