________________
तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः
२६९ इत्याह -क्रियाश्रयः कतैवेतीत्यादि । अत एव य आधार इत्यत्र पञ्यां क्रिया च द्विधा कर्तृस्था कर्मस्था चेत्युक्तम् । यद्येवम्, कथमस्मिन्नेव प्रस्तावे ब्रूते कथा स्वयमेवाचीकरत, कटमसौ स्वयमेवेति नोक्तम्, तथा चात्रापि वचनं प्रेषणादि च कर्तृस्थम् एवेति वक्ष्यति ? सत्यम्, गमनेन सह वचनप्रेषणादीनां महान् भेदः, तथाहि गमनं कर्तृस्थमेव प्रतीयते, वचनं च कथायामपि प्रतीयते, कथाया वचनमयत्वात्, तर्हि कथं वचनं कर्तृस्थमेवेति वक्ष्यति ? सत्यम्, अत एव पनिकायां विवक्षायाः प्राधान्यादिति वक्ष्यति । यद्यपि कर्मस्थमपि वचनं तथापि कर्तस्थं कृत्वात्र विवक्षितमिति भावः । तर्हि कथं प्रेषणं गमनेन सह नोक्तम् । नहि यथा कथायां कर्मणि वचनं समवेतं तथा कटेऽपि प्रेषणं समवेतमिति वाच्यम् । प्रेषणस्य वचनादिरूपेण कर्तृस्थेनैव प्रतीयमानत्वादिति ? सत्यम्, परेण हि "इन्त्रन्थिग्रन्थिब्रूनामात्मनेपदाकर्मकाणाम्" इति सूत्रेण कर्मवद्भावनिषेध उच्यते, ततश्च तद्विषये दर्शयितव्ये एकत्रैव दर्शितमिति न दोषः । उक्तार्थतापि कर्मकार्यमिति वृत्तिः। व्याख्यातमेवैतत् तथापि कियदुच्यते - अथातिदेशबलाद् द्वितीया भवतीति कथमुक्तार्थतया बाधनीया ? न हीयं द्वितीया कर्मत्वाश्रिता किन्त्वतिदेशबलात् कर्मकर्तर्येव, अतोऽप्युक्ते कर्मकर्तरीति वक्तुं युज्यते, न हीहोक्ताधिकारोऽस्ति, न वोक्तकर्मणि प्रथमाविधायकवचनमस्ति, येनोक्तार्थेऽपि कर्मकार्यं स्यात् । नैवम्, यद् यत् कार्यं कर्मणि वाच्ये विधीयते तत्तत् कार्यं कर्मकर्तरि वाच्ये विधीयते ।
पत्री - अत्यन्तं भेदोपलम्भादिति । अत्यन्तमिति क्रियाविशेषणम् । स्वैरात्मीयैरिति कर्तुः स्वैर्गुणैरधिश्रयणादिभिरित्यर्थः । सुकरैरित्यत्र कति तृतीयान्तकर्तृशब्दो योज्यः, अन्यथा खल्सम्बन्धे "न निष्ठादिषु" इति निषेधात् षष्ठयनुपपत्तेः । ननु कर्तुः सुकरैर्गुणैरिति कर्मत्वमेवायाति न तु कर्तृत्वमित्याशङ्क्याह - एतदुक्तमिति । पूर्वेण कर्मण्यात्मनेपदम् इति । ननु कथमेतद् यावता कार्यातिदेशोऽयम्, सर्वमनेनैव विधीयते, अतः कर्मवभावादात्मनेपदमेव वक्तुं युज्यते ? सत्यम् । पूर्वेणैव कर्मणि यदात्मनेपदं विधीयते तदत्र कर्मवद्भावाद् आत्मनेपदम्, न तु कर्मकर्तरि विधीयते इति साध्याहारं व्याख्यातव्यम् - कर्मणीति शेष इति। ननु कथमेतद् यावता कर्मण्यात्मनेपदेन विधीयते कर्मशक्तेरभावात् ? तथा च कर्मभूतस्य साधनस्य कर्तृत्वविवक्षायां सत्यां कर्मत्वमपनीय कर्तृत्वं विवक्ष्यते, ततश्च कतैव कर्मकार्यं धातुद्वारा भजते ।
कथमन्यथा सकर्मकाद् धातो वे प्रत्ययो वृत्तिव्याख्याने सिद्धान्तित इति अकर्मकादेव तत्स्वीकारात् ? सत्यम्, अत्रापि पूर्ववत् सिद्धान्तः। आत्मनेपदेन कर्मत्वमुक्तमिति कर्मत्वमिव कर्तृत्वं कर्मविहितप्रत्ययत्वादिति । एतेन कर्मकर्तृत्वमेव