________________
२३८
कातन्त्रयाकरणम्
इच् प्रत्यय, “अस्योपधायाः" (३।६।५) इत्यादि से ऋकार को वृद्धि तथा तप्रत्यय का लोप ।। ४८०।
४८१. सार्वधातुके यण् [३।२।३१] [सूत्रार्थ]
भाववाच्य तथा कर्मवाच्य में सार्वधातुकसंज्ञक प्रत्यय के परे रहते सभी धातुओं से यण प्रत्यय होता है ।।४८१।
[दु० वृ०]
सर्वस्माद् धातोर्यण् परो भवति भावकर्मणोर्विहिते सार्वधातुके परे । आस्यते भवता, शय्यते भवता, ग्रामो गम्यते भवता । कृञः श च -क्रिया | चकारात् तपेस्तपःकर्मकात् कर्तरि भवति । तप्यते तपस्तापसः। तपोऽर्जयतीत्यर्थः । अत्रार्थे रुचादिः, अनोस्तु न स्यात् । अनुतपते तपस्तापसः ।।४८१ ।
[दु० टी०]
सार्व० । भावकर्मणोविहिते सार्वधातुके इति । भावकर्मणोरभिधेययोः साध्ये यणि विज्ञायमाने सार्वधातुकमविशेषितमिति कर्तरि स्यात् । उभयोश्च प्राधान्येनाभिधीयमानयोः परस्परानपेक्षत्वाद् असम्बन्धः । न चैवम्भूतयोरप्यभिधानमस्ति । नहि शय्यते इत्यस्माद् भावः कर्ता च प्रतीयते, नापि गम्यते इति कर्म च कर्ता च । किञ्च 'साहयः, सातयः' इति साहिसातीत्यादिना कर्तरि विशेष इत्युक्तार्थत्वादण् न स्यात् । कारितलोपे ‘साहयः' इति न स्यात् । तस्मात् सार्वधातुकस्य भावकर्मप्रतिपादनायां सहायीभावेन तु यणो विधानम्, एवं विकरणानामपि स्थितम् । कथं क्वचिदुभयप्रयोगेऽर्थसंप्रत्ययः- ‘पचति, पठति, पठ्यते, आस्यते' इति क्वचिद् विकरणमात्रं पच पठ इति । क्वचित् सार्वधातुकमात्रम् - अर्ति, जुहोति । क्वचिद् उभयोरप्यभावेअमार्ट, अधोग् इति ? सत्यम् | स्मृतिविषयत्वादनुसन्धिप्रत्ययात् लोके कर्बाद्यर्थविशिष्टोऽनेकरूपः पदार्थः पदेनैव गम्यते नावयवेन । अवयवास्तु शास्त्रकल्पितविभागाः समुदायार्थबुद्धिभावनायां हेतवो भवन्तीति ।
यद्येवं भावकर्माधिकारेण किम्, कर्तरि सार्वधातुके अनादिभिर्बाधितत्वात् परिशिष्टे अवतिष्ठेते ? सत्यम्, अतिदेशे प्रयोजनं वक्ष्याम । चकारादित्यादि । तपःशब्दो व्रते स्नानमौनादिलक्षणे ज्ञानविशेषे च स्वर्गादिप्राप्तिहेतौ वर्तते । तपिश्चानेकार्थत्वादर्जने, यदाऽसौ तपोऽर्जयतीति, तदा तपिस्तपःकर्मको भवति, तापसश्च तदुपर्ननकर्तेति भावः । तप:कर्मकादिति किम् ? उत्तपति स्वर्णं स्वर्णकारः ।। ४८१।