________________
२३६
कातन्त्रयाकरणम्
२. समपादि । सम् + अट् + पद + इच् + त । अडागम आदि प्रक्रिया पूर्ववत् ॥४७९।
४८०. भावकर्मणोश्च [३।२।३०] [सूत्रा]
सभी धातुओं से भाव-कर्म अर्थ की विवक्षा में अद्यतनी- आत्मनेपदसंज्ञक प्रथमपुरुष- एकवचन प्रत्यय के परे रहते इच् प्रत्यय होता है ।।४८०।
[दु० वृ०]
सर्वस्माद् धातोरिच् परो भवति भावकर्मणोर्विहितेऽद्यतन्याम् आत्मनेपदे प्रथमैकवचने परतः । अस्थायि भवता, अकारि कटो भवता । व्यवस्थितवाधिकारान्नानोस्तपः - अन्वतप्त ।। ४८०।
[दु० टी०]
भाव० । ननु कर्तरि सिद्धत्वात् पदिरिह वर्तते तत् कथमिह सर्वस्माद् इति ? सत्यम् । योगविभागादन्यवैकयोगेऽपि चकारेण कर्तरीत्यनुकृष्यते । नानोस्तप इति । 'तप भूप सन्तापे' (१।१३३) पूर्वं यत् पापं कर्म तेन पश्चात् तप्तः पीडित इत्यर्थः । यदात्मनेपदं भावे तदा पूर्वकृतेन पापेन पश्चात तप्तमित्यर्थः । कथम् अन्ववातप्तम् । अवशब्दव्यवधाने प्रतिषेधः स्यात् । अनोरिति नेयं पञ्चमी, किन्तर्हि विशेषणविशेष्यभावसम्बन्धे षष्ठी ॥४८०।
[वि० प०]
भावकर्मणोः । सर्वस्मादिति । अथानन्तरत्वात् पदिरिह कथं नानुवर्तते पूर्वेणैव सिद्धत्वादिति चेद् अयुक्तम्, कर्तरि पूर्वेणैव सिद्धम्, इह भावकर्मार्थमनुवर्तताम् ? सत्यम् । पृथग्योगात् । अन्यथा एकयोगेऽपि चकारेण कर्तरि इत्यनुकृष्यते, तत् किं भिन्नयोगेनेति । अस्थायीति । "आयिरिच्यादन्तानाम्" (३।६।२०) इत्यायिरादेशः । कृञश्च "अस्योपपाया" (३।६।५) इत्यादिना वृद्धिाः । व्यवस्थितेत्यादि । अनोरिति विशेषणसम्बन्धे षष्ठीयम्, न पञ्चमी । तेन ‘अन्ववातप्त' इत्यवशब्देन व्यवधानेऽपि प्रतिषेधो भवति । इच्प्रतिषेधे सिच्, "पुटश्च पुटि" (३।६।५१) इति सिचो लोपः।।४८०।
[क० च०]
भाव० । आत्मनेपदेनैव भावकर्मणोरर्थयोरुक्तत्वादत्र इच् न भवति । अत उक्तं वृत्तौ– 'भावकर्मणोर्विहिते' इति । ननु चकारात् कर्तरीत्यनुवर्तताम्, ततश्च सर्वस्मादेव