________________
२३४
कातन्त्रव्याकरणम्
"दीपजनदुपपूरितायियायिभ्यो वा" (द्र०, अ० ३।१।६१) अदीपि, अदीपिष्ट |अजनि, अजनिष्ट । अबोधि, अबुद्ध | अपूरि, अपूरिष्ट । अतायि, अतायिष्ट | अप्यायि, अप्यायिष्ट ।।४७९।
[दु० टी०]
इजा० । इच् ते पदेरिति । ननु तशब्दोऽयमस्ति आत्मनेपदैकवचनम्, परस्मैपदबहुवचनं च । कस्येदं ग्रहणम्, ‘पद गतौ' (३।१०७) आत्मनेपदी इति भावः ? 'आत्मने प्रथमैकवचने ' इति बालावबोधार्य वा, योगविभागस्तु बुद्धिकल्पनया । तेनेत्यादि । 'दीपी दीप्तौ' (३।९५)। तदपवादत्वात् पक्षे सिच् । 'जनी प्रादुभवि' (१।५३१; ३।९४) । “जनिवभ्योश्च" (३।४।६७) इति ह्रस्वः । 'बुध अवगमने' (१।५६६)। "राषि-रुषि०" (३।७।२२) इत्यादिना अनिट् । 'बुधिर बोधने' (१।५८२)। पक्षे सिच् । भौवादिकत्वादिट्- अबोधिष्ट । 'पूरी आप्यायने, ताय सन्तानपालनयोः, स्फायी
ओ प्यायी वृद्धी' (१।४१४, ४१३) । तथा सृजः श्रद्धोपनयनक्रियायाम-असर्जि मालां धार्मिकः इति ।।४७९।
[वि०प०] इजा० । आत्मने इति लुप्तपदशब्दोऽयं निर्देशः सूत्रत्वात् । तथा चोक्तम् -
आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च।
विभक्तिपदवर्णानां दृश्यते शार्ववर्मिक ॥ इति । उत्सम् - पूर्वात् पदेरिच, अडागमः,"अस्योपष०"(३।६।५) इत्यादिना उपधादीर्घः, "इचस्तलोपः" (३।४।३२) इति तकारलोपः । "इच् ते पदेः" इत्यादि । यद्यपि परस्मैपदमध्यमपुरुषबहुवचनमपि तशब्दो वर्तते, तथापि पद गतौ' (३।१०७) इत्यस्यात्मनेपदित्वादात्मनेपदैकवचनमेव लभ्यते इति भावः । अदीपीत्यादि । पूर्ववदिचस्तलोपः, पक्षे सिच्, षाट्टवर्गत्वम् । अजनीति | "जनिवथ्योश्च" (३।४।६७) इति उपधाह्रस्वः । अबुद्धेति । 'बुध अवगमने' (१।५६६) । “राषिरुषि०""(३।७।२२) इत्यादिना अनिट् । "घुटश्च धुटि" (३।६।५१) इति सिचो लोपः । “घटषभेभ्यस्तथोर्षोऽषः" (३।८।३) इति तकारस्य धकारः । "पुटां तृतीयश्चतुर्येषु" (३।८।८) इति धातुधकारस्य दकारः । 'बुधिर बोपने' (१।५८२) इत्यस्य भौवादिकस्य सेटकत्वात् पक्षे 'अबोधिष्ट' इति रूपत्रयम् ।।४७९ ।