________________
तृतीये आख्याताप्याये द्वितीयः प्रत्ययपादः
२२१ आलिङ्गनमुपगूहनम् परिष्वञ्जनं परिरम्भणम्, तच्च बाहुमतामेव रूढम् । अन्य आह - श्लिषः सत्त्वाश्लेष इति सुखालिङ्गितो दुःखालिङ्गित इत्यव्युत्पत्त्या दृश्यते । पुषादित्वादण् प्राप्तः परस्मैपदे सण भवति, आत्मनेपदे तु आलिङ्गन एवेति नियमः सिद्धः । अनालिङ्गने तु आश्लिषत् जतुकाष्ठं च, समश्लिष्ट गुरुकुलम्, समाश्लिष्ट प्लक्षो न्यग्रोधेन, व्यत्यश्लिष्ट उत्तमकाष्ठं चेति । इच् पुनर्भवेत्यव -अश्लिषि कन्या वटुना । अन्य आह - 'पुरस्तादपवादा अनन्तरान् विधीन बाधन्ते' (व्या० परि० ९), इज्व्यवहितो भवत्येव ।। ४७५।
[वि० प०]
सण् । 'लिह आस्वादने, क्रुश आळाने (२।६३; १।५६४), "हो ठः" (३।६।५६) इति, "छशोश्च" (३।६।६०) इति कृते पूर्ववत् कत्वम् । अकोषीदिति । 'कुष निष्कर्षे (८।४०), "इटश्चेटि" (३।६।५३) इति सिचो लोपः । 'गुहू संवरणे' (१।५९५)। ऊदनुबन्धत्वात् "स्वरतिसूति०" (४।६।८३) इत्यादिना विकल्पितेनेटा सेटकत्वात् कथं सण्णिति दर्शयन्नाह - कथमित्यादि । “हो :" (३।६।५६) इति दत्वे कृते "तृतीयादेर्पढयभान्तस्य" (३।६।१००) इत्यादिना चतुर्थत्वं धकारः । यस्मिन् पक्षे इड् नास्ति तस्मिन्नेव बुद्धिमारोप्यानिडित्युच्यमानेऽप्यदोष इत्याह - गुहूरनिडेकपक्ष इति । अभुक्तेति । अशने भुजीति रुचादित्वादात्मनेपदम् “धुटश्च धुटि" (३।६।५१) इति सिचो लोपः। अधाक्षीदिति । सृजीत्यादिनाऽकारः “अस्य च दीर्घः" (३।६।८)॥४७५।
[क० च०]
सण् । अलिक्षदिति । दहिदिहीत्यादिनाऽनिट्त्वम् । कथम् अघुक्षदिति वृत्तिः। उदनुबन्धकरणान्नित्यत्वाच्च परमपि गुणं बाधित्वा सण् । ननु दृशधातोर्वर्जनं किमर्थं सृजिदृशोरागमोऽकार इति ज्ञापकादेव तस्य सण् न भविष्यति । तथाहि अकारागमो गुणवृद्धिस्थाने भवति, अत्र यदि सण् स्यात् तदा कुतो गुणवृद्धिप्रसङ्गः इति ? सत्यम् । अकारागमस्य विषयो गुणप्रसङ्गे भविष्यति । यथा द्रष्टेति । अद्यतन्यां च सण भविष्यत्येव चेत्, न । सृजेर्गुणवृद्धिस्थानसंभवात् तत्साहचर्याद् दृश्धातोरपि गुणवृद्धिस्थानं संभवति । यथा अद्राक्षीदिति । तच्च तदैव संभवति यदि दृशधातोः सण् न भवतीति चेत्तदा कष्टं स्यादिति हेमकरः । अन्ये तु णकारानुबन्धबलाद् गुणात् प्राक् सणुत्पत्त्या गुणनिबन्धनस्यापि अकारागमस्य बाधा स्याद् गुणप्रसङ्गे एव तद्विधानादित्याहुः ।। ४७५।