________________
७८
कातन्त्रव्याकरणम् श्रुतायाः आशिष एव बाधकबाधनार्थं भविष्यद्ग्रहणमिति व्याख्येयम्, तदभावे तु श्वस्तन्येवाशिषं बाधयित्वा परत्वात् स्यादिति पञ्जिकाभिप्रायः । न त्वेकस्मिन् सूत्रे पूर्वापरत्वं नास्तीति वाच्यम्, 'अद्य ह्यो वा अभुक्ष्महि' इति व्यामिश्रे परत्वनिबन्धनसिद्धान्तस्यापि टीकायां दर्शितत्वात् । अस्मिन् पक्षे आशिष ः एव परेण पाठं कुर्यादित्यस्य भविष्यतीत्यादिविधिसूत्रे श्वस्तन्याः परेणाशिषः पाठं कुर्यादित्येवार्थ इत्याहुः । नन्वस्मिन् पक्षे भविष्यत्कालस्य भविष्यविशेषणादेवास्य श्वो वा गमिष्यतीति श्वस्तनीमपि बाधत इति भविष्यन्त्याः श्वसंज्ञाविशेषणस्य तत्फलान्तरमुक्तं तत्कथं संगच्छते ? विधौ भविष्यद्ग्रहणाभावे स्वसंज्ञाविशेषणस्य भविष्यन्त्याशी:श्वस्तनीनां भविष्यत्कालमात्रविधायकपरतयैव साफल्यात् । नैवम्, वर्तमानातीतकालयोर्वर्तमानातीतविभक्तिभ्यामाघ्रातत्वात् तत्र परिशेषपरिप्राप्त एव भविष्यत्काल इति न काचिदनुपपत्तिरिति ।
हेमकरस्तु तात्पर्याद् भविष्यति या विभक्तिः सा भविष्यन्तीति व्युत्पत्त्या भविष्यन्तीपदेन भविष्यन्त्याशीश्च मन्यते । तदाशिष एव परेण पाठं कुर्यादित्यस्याशीर्विधायकं भविष्यन्तीति परेण पाठं कुर्यादित्यर्थः ननु यदि अन्वर्थबलादेव आशीरपि भविष्यन्तीत्युच्यते तदा अन्वर्थस्य प्रायोवृत्त्या भविष्यन्तीपदेनाशी!च्यताम् ? नैवम्, यथा भूतकरणवतीशब्देन ह्यस्तन्यद्यतनीक्रियातिपत्तय उच्यन्ते तथा भविष्यन्तीतिपदेनापि भविष्यन्तीविभक्तिराशीविभक्तिश्चोच्यते स्वभावान्न पुनरन्वर्थबलादित्याह । तन्न, भविष्यन्तीपदस्य विभक्तिद्वये रूढौ प्रमाणाभावादिति । यदि तर्हि इत्यादि । ननु कथमयं पूर्वपक्षः संगच्छते, यतः स्वसंज्ञाविशेषणस्यैव तदेव फलं यत् सामान्यभविष्यत्काले ग्रहीतव्ये स्वसंज्ञाविशेषणबलेन श्व:प्रभृतयो मासपक्षादय एव कालाः गृह्यन्ते नाद्यप्रभृतय इति ? अन्यथा स्वसंज्ञाविशेषणाभावेनाद्यप्रभृतेरेव कालस्य ग्रहणं स्यात् ? सत्यम् । सिद्धान्तोऽत्र दुर्लभः, तत्रोच्यते श्वोभवकालस्य भविष्यत्त्वाद् यद् भविष्यविधानं तत्सामान्यप्रतिपत्त्यर्थम् इत्युक्तेऽपि तत्प्रकारेण सामान्यमवगम्यते, तच्च श्वस्तत्परस्तत्प्रकारेण श्वस्तनप्रकाराभावाद् अत एव त्रिलोचनेनापि श्वःप्रभृतेरित्युक्तम्, अतः श्वस्तनपुरस्कारेणैव श्वःप्रभृतेरेव ग्रहणं भविष्यति किं स्वसंज्ञाविशेषणेन ? सत्यम्, नैष दोषः । स्वसंज्ञाविशेषणव्यतिरेकेणापि श्व:प्रभृतावेव श्वस्तनीविधानलब्धत्वात् । तथाहि भविष्यविधानम् 'अद्य श्वो वा गमिष्यति' इत्यत्र श्वस्तनीबाधनार्थमित्युक्तम् । यदि स्वसंज्ञाविशेषणाभावेन श्वस्तनी सामान्यकालविषया स्यात् तदा श्वस्तनीभविष्यन्त्योरुभयोरपि सामान्यविधित्वाद् बाध्यबाधकता नोपपद्यते इति भविष्यन्त्या भविष्यविधानवैयर्थ्यभयात् श्वस्तन्या