________________
नामचतुष्टयाप्याये प्रथमो भातुपादः (व्या०प० वृ० ४१) इति न्यायात् । अथ दीर्घ एव कथन्न स्यादिति चेद् अकारान्तत्वाभावात् । ननु कथम् अकारान्तस्यैव दीर्घ इति निश्चितम्, न ह्यत्रान्तग्रहणमस्तीति | न च तदन्तविशेषणम्, लिङ्गस्यैवानधिकृतत्वादिति ? सत्यम् ।शसीति निमित्तसप्तम्युपादानाद् अनन्तरस्यैव पूर्वस्य दीर्घो भवति, कुतो व्यवहितस्य प्रसङ्गः । तथा 'अकारो दीर्घ घोषवति' (२।१।१४) इत्यादावपि मन्तव्यम् । दृशद्भ्याम् इत्यादौ दीर्घप्रतिषेधार्थम् . एवं तर्हि यत्र दीर्घस्तत्रैव प्रकृतिसकारस्यैव नकारः कथन्न स्यात् सारसानिति, नैवम् | अत्रापि सकारस्याकारेण व्यवहितत्वात् तस्माद् अर्थवशाद् विभक्तिविपरिणामेन लब्धषष्ठीकस्य शस एव सकारस्य नकार इति । किञ्च श्रुतत्वात् तृतीयान्' इति निर्देशाद् वेति ।
स्याद्यधिकारः किमिति - ननु च स्याद्यधिकारो न कृत एव तत् किमिदमुच्यते ? सत्यम् । इह स्याद्यधिकारः स्यादिसम्बन्ध उच्यते । यथा ब्राह्मणानामत्राधिकारः, ब्राह्मणानामत्र सम्बन्धो गम्यते । तदयमर्थः- स्याद्यधिकारः किं स्यादिसम्बन्धः किमिति न ह्यन्यस्य शसः सद्भावोऽस्तीति मन्यते । अथवा ये स्याद्यधिकारमिच्छन्ति तन्मतमनेनाशङ्कितमिति । इह तु प्रकरणे स्यादिसम्बन्धादेव न भवतीति वेदितव्यम् इत्यदोषः । अल्पं देहि अल्पशः । “'बह्वल्पार्था०" (२।६।४०-८) इत्यादिना तमादित्वाच्छस् ।।९५।
[क० च०]
शसि । यावता अर्थवशाद् विभक्तिविपरिणामेन लब्धषष्ठीकस्य शसः सकारस्य नकारस्तावता तत एवार्थवशात् पूर्वस्य कार्यद्वयम् इत्यकारस्य दीर्घत्वे तत्सन्निहितस्य सकारस्य न कथं नकार इत्याह - किं चेति हेमकरः। वस्तुतस्तु यस्य दीर्घो विधीयते नकारोऽपि तस्यैव विधातुमुचितः आदेशितया क्लृप्तत्वात् साहचर्याच्च । अन्यथा आदेशिद्वयकल्पने. गौरवं स्यादित्याह-किञ्चेति । लिङ्गमपि श्रुतम्, तस्य दीर्घादिविधानादित्याह - तृतीयानितिनिर्देशाद् वेति हेमकरः । तन्न । लिङ्गं हि प्रकरणबलात् प्राप्तम्, अतोऽनुचितमिति, किन्तु शसीत्यस्य सप्तम्यन्ततया श्रुतत्वेन दीर्घनकारादेशयोर्निमित्तत्वमेव युक्तम्, तत्र शस आदेशित्वे सति श्रुतहानिकल्पना स्यात्, वाक्यद्वयमपीत्याह - तृतीयानिति निर्देशाद् वेति ।
१. बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् (अ० ५।४।४२ ) ।