________________
४४
कातन्त्रव्याकरणम्
'ग्रामणी - यवलू' शब्दौ शब्दान्तरनिरपेक्षौ स्वभावात् पुंसि वर्तेते । तर्हि ईदूद्ग्रहणं किमर्थम्, बहुखट्व इत्यत्र नदीलक्षणः को मा भूत्, नैवम् । “हस्वनदी श्रद्धाभ्यः” (२ । १ । ७१ ) इत्यत्र श्रद्धाग्रहणात् । तर्हि 'शरदं मातरं पश्य' इति नदीकार्यं प्रसज्येत || ८८ |
[वि० प० ]
ईदूत्० । अथ किमर्थं तपरकरणम्, ईकारस्य यत्वे यू- इति लुप्तप्रथमाद्विवचनमास्ताम्, नैवम् | “औकारः पूर्वम्” (२।१।५१ ) इति कृते निर्देशस्य समानत्वाद् ह्रस्वयोरपि नदीसंज्ञा स्यात् । ततश्च मतिधेनुशब्दयोरपि नदीत्वे सति बहुमतिर्बहुधेनुरिति १७ "नयृदन्ताद्बहुव्रीहौ" इति नदीलक्षणः कप्रत्ययः स्यात् । तदयुक्तम् " ह्रस्वश्च वति” (२।२।५) इति ह्रस्वयोर्नदीवद्भावविधानाद् विकल्पार्थमिति तदिति चेत् तर्हि वत्करणं विरुध्येत । उपमानोपमेययोरविशेषत्वादतस्तस्मादतिदेशबलाद् दीर्घयोरेव नदीसंज्ञा विज्ञायते । यू-इति पुनर्विधानाच्च, अन्यथा ईदूदिति वर्तत एव । न च यकारस्य नदीत्वाशङ्का स्यात्, यस्मादुकारेण स्वरेण साहचर्यादीकार एवावसीयते ? सत्यम्, एवं सति सन्देहनिरासार्थमेव स्यादित्याह - तपर इत्यादि ।
अत
स्त्रियमाचक्षाते इति स्त्र्याख्यौ । विषयविवक्षायां चक्षिङः ख्याञादेशे सति, एव निर्देशात् सोपसर्गादपि कप्रत्ययः । तच्च किमर्थमित्याह - स्त्र्याख्यावित्यादि । सेनानी-यवलूशब्दौ शब्दान्तरनिरपेक्षौ स्वभावात् पुंसि वर्तेते, नात्र नदीसंज्ञा यदापि शब्दान्तरसन्निधानात् स्त्रियां वृत्तिस्तदापि न भवति । इहाख्याग्रहणस्य नित्यस्त्रीविषयत्वादिति । अन्यथा स्त्रियामित्येवं कुर्यात् । तेन 'सेनान्यै, यवल्यै ब्राह्मण्यै' इति नदीत्वाभावाद् “नया ऐ-आस्-आस्-आम् ' (२।१।४५) इति ऐर्न भवति || ८८ | [क० च० ]
ईदूत्० । ह्रस्वयोरपि नदीसंज्ञा स्यादिति । ननु “ अम्शसोरादिर्लोपम् ' (२।१।४७) इत्यत्रामुग्रहणादेव ह्रस्वयोर्न भविष्यति । अन्यथा “ अग्नेरमोऽकारः " ( २|१ |५० ) इत्यनेनाकारलोपः सिद्धः ? सत्यम् । सिद्धान्तरमेतद् इति यू पुनर्विधानाच्चेति ह वत्करणमस्ति, अधिकाराच्चेति तदर्थस्याघटनान्न वर्तते इत्याह- 'यू' इति हेमकरः । औणादिकस्य नदीसंज्ञकस्य ह्रस्वो नेष्यते इति केचित् । तस्माद् ' हे तन्त्रीः, हे लक्ष्मीः ' इति सिध्यति । दृश्यते च - 'हे लक्ष्मीः स्या दरिद्राणां तन्त्रीः कर्णामृतं पिब' इति । अस्माकं
१. नघृतश्च ( अ० ५।४।१५३) ।