SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् श्रयत्वाल्लिङ्गवतीयमुच्यते । तत्पुनरस्या लिङ्गम् उदनुबन्ध आगमः "धुट्स्वराद् घुटि नुः” (२।२।११) इत्येवमादिषु । ननु च उदनुबन्धो यः स आगम इति कथमवसितम्, यावता "घुटः स्वरात्" (२।२।११) इति पञ्चमी, घुटीति सप्तमी, मध्ये नुः स्वतन्त्रः कथन्न भवतीति "युजेरसमासे नुर्पुटि, अनडुहश्च, सौ नुः" (२।२।२८, ४२, ४३) इत्यादिषु आदेशोऽपि । नैवम्, उदनुबन्धकरणसामर्थ्यादागम एव निश्चीयत इत्याह - उदनुबन्ध आगमस्य लिङ्गम् इति, तर्हि वन्तुप्रभृतयोऽप्युदनुबन्धाः, तेषामप्यागमत्वं स्यात् । नैवम्, प्रत्ययकरणत्वात् । अन्यथा आगमकरणमनर्थकमित्याह -आगम इति किम् ? विद्युत्वान् इति । अन्तस्थो डे रित्यादिषु तु नियतदेशावस्थानकल्पनयैवागमत्वं सिद्धम् । ननु "सौ नुः" (२।२।४३) प्रभृतिषु सप्तमीनिर्देशाद् अर्थात् परो लभ्यते ? नैवम् | प्रकृतेरागमत्वादानन्तर्यं न विरुध्यते । ननु “मुचादेरागमो नकारः" (३।५।३०) इत्यत्र नुरेव कथन्न कृत उदनुबन्धबलादेवागमो भविष्यति ? सत्यम्, प्रतिपत्तिगौरवनिरासार्थमेव ॥८५। [वि० प०] आगमः । प्रकृतीत्यादि । तथा चापिशलीयाः पठन्ति - आगमोऽनुपघातेन विकारश्चोपमर्दनात् । आदेशस्तु प्रसङ्गेन लोपः सर्वापकर्षणात् ॥इति । अस्मात् स्वरात् पर इति स्वराणां मध्ये योऽन्त्यः स्वरस्तस्मादिति प्रतिपत्तव्यम् । अन्यथा व्यञ्जनापेक्षया अन्त्यात् स्वरात् परो भवन् पद्मानीत्यादौ पकारस्याकारादपि स्यात्, एतच्चान्त्यग्रहणादेव लभ्यते, अन्यथा 'येन विधिस्तदन्तस्य' (कात० प० ३) इति सिद्धमेव । उदनुबन्ध इत्यादि । “धुस्वराद् घुटि नुः" (२।२।११) इत्यादौ उकारस्यानन्यार्थत्वादागमत्वमेव लक्षयतीत्यर्थः । अत एव विद्युत्वानित्यादौ सत्यप्युदनुबन्धत्वे वन्तो गमत्वम्, उकारस्य "अन्त्वसन्तस्य चाधातोः" (२।२।२०) इति चरितार्थत्वात् प्रत्ययप्रकरणविहितत्वाच्चास्येति ।। ८५ । [क० च०] आगमः । ननु प्रकृतिप्रत्यययोरनुपघाती आगम इत्युक्तेऽनादिविकरणानामागमत्वं कथं न स्यात्, नैवम् । प्रकृतिप्रत्यययोरेकतरत्वे सतीति विशेषणस्य विवक्षितत्वादा
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy