________________
४८४
कातन्त्रव्याकरणम्
इत्याह - विरामे शब्दच्छेद इति । अश्रुतत्वात् प्रकृतिविराम इति नाशयते कथम् अन्यस्मिन् ब्राह्मणकुले विरतानि व्रतानि स्वाध्यायश्चेति । नैवम्, ब्राह्मणजातिम् अपेक्ष्यात्रापि आरम्भपूर्वक एवाभाव इति ब्रूमः । अथवा अवसानार्थ एव विरामो लोके रूढ इति । ननु व्यवहितयो?षवदघोषयोः कथमनुवर्तनम् ? सत्यम् । गोयूषनामाधिकारः। यथैकस्य गोरनुमार्गेण बहवो गच्छन्ति, तथैकस्याधिकारस्यानुमार्गेण यदा बहवोऽधिकाराः प्रवर्तन्ते स गोयूथ उच्यते । तृतीयप्रथमयोरपवादः सकारस्य विसर्जनीय उच्यते, रेफस्य स्थितिरेव प्राप्ता ।
यद्येवम्, 'पुमान्, विद्वान्' इत्यत्र संयोगान्तलोपात् परो विसर्जनीयः कथन्न भवति ? सत्यम् । व्यवस्थितविभाषार्थो वाशब्द इह प्रतिपत्तव्य एव । तथा च 'पुंस्कोकिलः' इत्यादौ सन्धौ दर्शितमेव । तथा मत्वर्थे न भवति 'यशस्वान्, पयस्वान्, अर्चिष्मान्, दोष्मान्' इत्यत्र घोषवत्यपि रो न भवति, तत्रापि व्यवस्थितविभाषाश्रयणमिति । तेन तसोस्तसौ मत्वर्थीये न वक्तव्यमिति । वाधिकारादित्यादि । एवं 'वार-वासु, द्वार्द्वार्स' । यद्येवं सुपीति वक्तुं युक्तम्, नैवम् । वाया॑म्, द्वााम् इति विसर्जनीये घोषवति लोपः स्यात् । रप्रकृतिरनामिपरोऽपीति चेत् ? सत्यम् ।बहुलम् इत्यनेनाश्रितव्यवस्थितविभाषेयं सुखप्रतिपत्तिहेतुरुच्यते । ___'सजूषु,आशीःषु' इति । एवं पिपतीःषु,पिपठीषु' ।रेफाद् विहिते सुपि रेफस्य न विसर्गः । अरेफाद् विहिते भवत्येवेत्यर्थः । कथं 'नृकणोऽपत्यं नार्कणः, नृकणः, नार्कण्यः' इति। अपत्येऽणि ण्ये च आकृतिगणत्वाद् विहिते वृद्धिर्बहिरङ्गा ‘असिद्धं बहिरङ्गमन्तरङ्गे' भवति । कथं ददुरो मर्मरो मर्कट इति । एवंभूता एवैते शब्दाः स्वभावसिद्धाः लोकतः इति । अथवा विरामव्यञ्जनादाविति स्मर्यते, स च प्रत्यये एवेति न विरुध्यते ।।२८४।
[वि० प०]
रेफ० । विरामशब्दः स्वभावादवसाने वर्तते इत्याह - विरामे · शब्दच्छेदे शब्दावसाने इति यावत् । ननु कथं तर्हि व्यवस्थितयो?षवदघोषयोरनुवृत्तिः स्यात् ? सत्यम् । गोयूथनामाधिकारोऽयम् । यथा एकस्य गोरनुमार्गेण बहवो गावो गच्छन्ति तद्वदेकस्याधिकारस्यानुमार्गेण यदा बहवोऽधिकारा अनुवर्तन्ते, तदासौ गोयूथनामाधिकारो भवति ।।२८४