________________
४८२
कातन्त्रग्याकरणम्
वाशब्दः । अथवा यदि विकल्पार्थः स्यात् तदा "मुहादीनां वा" (२।३।४९) इत्यतो मण्डूकप्लुत्या वाऽधिकाराद् विकल्पो भविष्यति, किमनेनेति । अवश्यं च वाऽधिकारोऽङ्गीकर्तव्यः “विद्युत्वान्, तडित्वान्' इति सिद्धये । अन्यथा विद्युद् विद्यतेऽस्येति वन्तुप्रत्यये धुटां तृतीय एव स्यात् । ततो वाऽनुवृत्त्या तकारस्य वन्तौ तृतीयो न भवतीति प्रतिपत्तव्यम् । तथोत्तरत्रापि न विसर्गः – ‘पयस्वान्, भास्वान्, यशस्वान्, दोमान्, अर्चिष्मान्, आयुष्मान्' इत्यत्र घोषवत्यपि रो न भवति, तत्रापि व्यवस्थितविभाषाश्रयणात् । अत इह तसोर्मत्वर्थीय इति च न वक्तव्यं भवति ।२८३।
[क० च०]
वा वि० । वाशब्दः कार्यमेव समुच्चिनोति न तु निमित्तम्, पूर्वेणैव सिद्धत्वात् । व्याख्यानत इति पनी । विरामे वा' इत्यकरणादिति केचित् । तन्न ! तत्तु प्राक्पठितस्य वाशब्दस्य विकल्पदर्शनात् । यधा "वाऽसरूपोऽस्त्रियाम्" (४।२।८) इति। अन्तपाठे तस्यापि समुच्चयार्थो दृश्यते । यथा "शि न्चौ वा" (१।४।१३) वेति । अन्ये तु वाशब्दस्य विकल्पार्थत्वे तृतीयानुवृत्तिर्न स्यात्, अपि तु प्रथमैव । तदा अघोषे प्रथमे "वा विरामे" इति कृतं स्यादित्याहुः । तदप्यसङ्गतम्, एकयोगे सति वाशब्दस्य समुच्चयार्थशङ्काया अनिवार्यत्वात् । अपरे तु 'विरामे विभाषया' इत्यकरणात् समुच्चयार्थ एवेत्याहुः ।
तदप्यसङ्गतम् । यदि समुच्चयार्थ एव स्यात् तदा चकारमेव विदध्याद् इत्यस्यापि स्वरत्वात् । तस्मादाचार्यपारम्पर्यमेव व्याख्यानमिति । वस्तुतस्तु व्याप्तिन्यायादेवात्र व्याख्यानमिति ब्रूमः । अथ किं तद् व्याख्यानमिति अभिसन्धाने कष्टं स्यादित्याह – अथवेति । अथ मण्डूकप्लुत्याश्रयणे कष्टं स्यादित्याह - आवश्यकत्वादित्यादि ।।२८३।
॥ इति श्रीवियाभूषणसुषेणाचार्यशर्षकविराजकृती द्वितीये नामचतुष्टयाध्याये तृतीयो युष्मदादिपादः
समाप्तः॥