SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४७८ कातन्त्रव्याकरणम [दु० वृ०] धुटां वर्णानां तृतीयो भवति घोषवति सामान्ये । योषिद्भ्याम्, चित्रलिग्भिः, मज्जति, लज्जते, भृज्जति ।।२८१ । [दु० टी०] धुटाम्० ।धुद्भिरिह न केचिद् विशेष्याः सन्ति, अश्रूयमाणत्वादिति तदन्तविधिर्न भवति । टु मस्जो, ओ लस्जी, भ्रस्जेः तृवर्णतवर्गलसा दन्त्या इति 'स्थानेऽन्तरतमः' (का० परि० १७) सकारस्य दकारः । “तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) इति सोपधपाठस्तु "न्यवादीनां च" (४।६।५७) इति गत्वे मद्गुः । “स्कोः संयोगायोरन्ते च" (३।६।५४) इति सलोपे 'मग्नम्, भृष्टम्' इति यथा स्यात् । कथं शक्यः, स्वप्नः' इति धुटां तृतीयश्चतुर्थेष्वेव प्रत्ययेष्विति नियमात् । कथं विद्युत्वान्, तडित्वान्' इति मण्डकप्लुतिव्यवस्थितवानुवृत्त्या तकारस्य वन्तौ न भवति इति। यथा मण्डूकः उत्प्लुत्य उत्प्लुत्य गच्छतीति । अलुप्तविधावपि व्यवस्थितविभाषा सिद्धैव । यथा - महाब्रह्माणमाचष्टे, सुवेश्मानमाचष्टे 'महाव्रट्, सुवेट ' इति । तथा 'घृतम्' इत्युदाहृतमेव । कारितक्विबन्तानां धातूनां डत्वादयश्चतुर्थपर्यन्ताः प्रयोगानुसारेण लुप्तविधौ द्रष्टव्याः इति ।।२८१। [वि० प०] धुटाम् । इह घोषवतीत्यनुवृत्तिः सामान्यार्थ एवेत्याह - घोषवति सामान्य इति । चित्रलिभिरिति । चित्रं लिखतीति क्विप् । मज्जतीत्यादि 'टु मस्तो शुद्धौ, भ्रस्न् पाके, ओलजी ओ लस्नी ब्रीडे' (५।५१, ४, ११६) सम्प्रसारणम् । 'लुवर्णतवर्गलसा दन्त्याः ' (कात० शि० सू० ४) इति न्यायाद् अन्तरतमः सकारस्य दन्त्यस्य तृतीयो दकारः प्रवर्तते – “तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) इति ।।२८१ । [क० च०] धुटाम् । इह घोषवतीत्यनुवृत्तिः । सामान्यार्थमित्यादि । ननु कथम् इदमुच्यते, यावता “लिङ्गान्तनकारस्य" (२।३।५६) इत्यत्र लिङ्गग्रहणादेव सामान्यमवगम्यते इति ? सत्यम् । यदि घोषवद्ग्रहणं न क्रियते तदा इच्छतीत्यादौ अघोषेऽपि तृतीयः स्यात्, नैवम्, अघोषे प्रथमस्य विषयत्वात् । तर्हि वहतीत्यादौ स्वरे दोषः स्याच्चेद्
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy