________________
४७०
कातन्त्रव्याकरणम्
५. राजत्वम् । राजन् + त्व + सि । राज्ञो भावः । “तत्वौ भावे" (२।६।१३) से त्वप्रत्यय, प्रकृत सूत्र से नलोप, लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मुआगम ||२७७।
२७८. न संबुद्धौ [२।३।५७] [सूत्रार्थ
सम्बुद्धिसंज्ञक 'सि' प्रत्यय परे रहते लिङ्ग (= प्रातिपादिक) के अन्तिम वर्ण नकार का लोप नहीं होता है ।।२७८ ।
[दु० वृ०]
लिङ्गान्तनकारस्य लोपो न भवति, सम्बुद्धौ । हे राजन् ! पृथक्करणान्नपुंसकस्य वा - हे साम, हे सामन्! ।।२७९ ।
[दु० टी०]
न संबुद्धौ । प्रतिषेधवचनं ज्ञापयति प्रत्ययलोपलक्षणमाश्रित्य संज्ञाविधिर्न बाध्यत इति केचिदाचक्षते । अस्माभिस्तु लिङ्गविधाने युक्तिरुक्तैव । कथं हे राजवृन्दारक इति, अचोद्यमेतत् । न हि संबुद्धयन्तस्य समासः सम्बोधनमाक्षिप्तक्रियापदं प्रवर्तमानं कथमनपेक्षमिति वृत्तिसमानार्थेन च वाक्येन भवितव्यम् । वाक्येनावयवसंबोधनमवगम्यते, समुदायसंबोधनं तु समासेनेति । पृथक्करणादित्यादि । एतेन 'नत्रा निर्दिष्टमनित्यम्' (का०परि० ६७) इह साध्यते इति भावः ।। २७८ ।
[क० च०]
न सं० । ननु किमर्थमिदं सिलोपे पदान्तत्वादेव नकारलोपो न भविष्यति । उच्यते-प्रतिषेधवचनं ज्ञापयति । प्रत्ययलोपलक्षणे सत्यपि लुप्तविभक्तोनां लिङ्गसंज्ञा न विहन्यते इति । अत एव पदसंज्ञाविधौ राजेति नित्यत्वाद् व्यञ्जनाच्चेति सिलोपे कृते पुनर्लिङ्गसंज्ञायां सत्यां लिङ्गान्तनकारलोपो भवतीति पत्रीकृतोक्तमिति भावः । अथ लिङ्गान्तनकारस्यासंबुद्धौ इत्येकयोगः क्रियताम् । किं पृथग्वचनेनेत्याह - पृथक्करणान्न पुमिति। तेन ‘नलोपो नपुंसकस्य वा' इति न सूत्रं वक्तव्यम् ।।२७८।