SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४६८ कातन्त्रव्याकरणम् ६. साधुतट्त्वम् । साधुतक्ष् + त्व + सि | साधुतक्षो भावः । “तत्वी भावे" (२।६।१३) से त्वप्रत्यय, प्रकृत सूत्र से ककार - लोप, "पुटां तृतीयः" (२।३।६०) से ष् को ड्, "अपोषे प्रमः" (२।३।६१) से ड् को ट्, 'साधुतट्व' शब्द की लिङ्गसंज्ञा, सिप्रत्यय, सिलोप तथा मु- आगम ।। २७६ । २७७. लिङ्गान्तनकारस्य [२।३।५६] [सूत्रा] विराम के विषय में तथा व्यञ्जनादि प्रत्यय के परे रहते लिङ्गसंज्ञक शब्द के अन्त में विद्यमान नकार का लोप होता है ।।२७७। [दु० वृ०] लिङ्गान्तनकारस्य लोपो भवति विरामे व्यञ्जनादिषु च । सखा, राजभ्याम्, राजभिः, राजसु, राजत्वम् । लिङ्गान्तनकारस्येति किम् ? अहन् ।पुनर्लिङ्गग्रहणमुत्तरत्र सामान्यार्थम् ।।२७७। [दु० टी०] लिङ्गान्त० । लिङ्गस्यान्तोऽवयवो यो नकारस्तस्य लोप इति । 'हन् हिंसागत्योः' (२।४)हस्तन्यां दिः,सिर्वा ।अदादित्वादनो लुक्, अड्धात्वादिः । "व्यत्रनाद् दिस्योः" (३।६।४७) लोपः । व्यवस्थितवाधिकाराद् ‘राजन्वान् देशः, राजन्वती पृथिवी' । शोभनो राजा विद्यतेऽस्मिन्निति प्रशंसायां वन्तुः । तेन ‘राजन्वान्, सौराज्ये' न वक्तव्यं भवति । यद्येवं प्रकरणवशाल्लिङ्गं लब्धमेव तर्हि स्यादिविभक्तिरपि प्रकरणाल्लभ्यते इति 'वृक्षान्' इत्यत्र कथं नलोपो न भवति, नैवम् । व्यञ्जनादौ सर्वदा लिङ्गमेव तत्साहचर्याद् विरामेऽपि सर्वदा लिङ्गमेवावसीयते इत्याह - पुनर्लिङ्ग इत्यादि । तेन धातुविभक्त्योरपि वक्ष्यमाणे कार्यं भवति । 'मज्जति, भृज्जति' इति "घुटां तृतीयः" (२।३।६०)। पयः, पयोभ्याम् इति विसर्गः । अन्तग्रहणं सुखप्रतिपत्त्यर्थमेव ।।२७७। [वि० प०] लिङ्गान्त० । लिङ्गान्तश्चासौ नकारश्चेति कर्मधारयः । सखेति, सख्युश्चेति अन् । अहन्निति । हन् हिंसागत्योः । ह्यस्तन्यादिः सिर्वा | "यजनाद् दिस्योः"
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy