SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४६३ नामचतुष्टयायाये तृतीयो युष्मत्पादः [दु० टी०] संयो० । लिङ्गस्य यः संयोगस्तस्यान्तलोप इति, तर्हि किमन्तग्रहणेन संयोगेन लिङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः । संयोगान्तलिङ्गस्य लोपो भवति वर्णान्तस्य विधिरिति ? सत्यम् । अन्तग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थम् । अन्यथा निर्दिष्टस्य संयोगस्य लोप इति विप्रतिपद्येत ।।२७५ । [वि० प०] संयो० । कटचिकीरिति कृञः सन् | "स्वरान्तानां सनि" (३।८।१२) इति दीर्घः । "ऋदन्तस्येरगुणे" (३।५!४२) इति ईर्, “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घत्वम्, द्विवचनम्, कवर्गस्य चवर्गः । ततः कटं चिकीर्षतीति क्विपि कृते बुद्धिस्थे “अस्य च लोपः" (३।६।४९) इत्यकारलोपः, संयोगान्तसकारलोपः । परनिमित्तादेशाभावात् स्थानिवद्भावो नास्तीति अन्तसकारस्य लोपः ।।२७५। [क० च०] संयो० । ननु संयोगस्यान्तः संयोगान्त इत्यर्थे सति ‘बहुश्रेयस्कः' इत्यादौ कथं संयोगात् परोऽकारो न लुप्यते । नैवम्, त्यञ्जनादेशप्रस्तावाद् वक्ष्यमाणसूत्रे संयोगावयवस्य लोपदर्शनाच्च । कटं चिकीर्षतीति क्विपि बुद्धिस्थ इत्यादि । ननु कथमिदमुक्तम्, यावता क्विपि निमित्तेऽकारलोपे कृतेऽपि “न पदान्त०" (का० परि० १०) इत्यादिना स्थानिवद्भावनिषेधात् संयोगान्तलोपो निर्विवाद एव । नैवम्, अभिप्रायापरिज्ञानात् । किन्त्वयमभिप्रायः- क्विपि निमित्तेऽकारलोपे स्थानिवद्भावेनानन्त्यत्वाभावात् षत्वं प्राप्नोति । अतो रात् सस्यैव लोप इति नियमेन मूर्धन्यषकारस्य लोपो न स्यात् । अतोऽवश्यं क्विपि बुद्धिस्थे इति वक्तव्यम् । ननु तथापि वक्तुमिदं न युज्यते । यावता रात् सस्यैव लोप इति नियमस्यान्यत्रानवकाशात् षत्वमत्र न भविष्यतीति चेत्, न । चतुःशब्दात् सुच्प्रत्यये कृते 'चतुर्भुङ्क्ते' इत्यादौ नियमस्य सावकाशत्वे प्रसङ्गस्य दुर्निवारत्वात् । अतः क्विपि बुद्धिस्थे इत्युक्त्वा अकारलोपस्य परनिमित्ताभावेन स्थानिवद्भावात् । अन्त्यत्वेन च षत्वाभावात् सिद्धः संयोगान्तलोप इत्युपसंहारः । अथ तर्हि कटचिकीर्ध्याम्' इत्यत्रानन्त्यत्वात् षत्वे रात् सस्यैव लोप इति नियमबलात् कथं
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy