________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः ८. आशीस्ता। आशिष् + त + सि | आशिषो भावः । “तत्वी भावे" (२।६।१३) से तप्रत्यय । प्रकृत सूत्र से ष् को र्, “इसरोरोरूरी" (२।३।५२) से इर को ईर, रेफ को विसर्ग, विसर्ग को स्, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।।२७२।
२७३. इरुरोरीरूरौ [२।३।५२] [सूत्रार्थ]
विराम के विषय में तथा व्यञ्जनादि प्रत्यय के परे रहते धातु के अन्त मे विद्यमान इर् के स्थान में ईर् आदेश तथा उर् के स्थान में ऊर् आदेश होता है ।। २७३ ।
[दु० वृ०]
धातोरिरुरोरीरूरौ भवतो यथासंख्यं विरामव्यञ्जनादिषु च । गीः, गीभ्याम्, गीर्षु, गीस्तरा । धूः, धूभ्याम्, धूर्षु, धूस्तरा ।।२७३।
[दु० टी०]
इरुरो० । "नामिनो ोः" (३।८।१४) इत्यनेन व्यञ्जनेऽपि दीर्घं न प्राप्नोति, लिङ्गधातुत्वात् । 'इरुरोर्दीर्घः' इति कृतेऽपि नलोपश्चेति वर्णापेक्षया नियमे सति 'गीर्यति, गीर्यते । धूर्यति, धूर्यते' इति न सिध्यति ।अतः 'ईरूरौ' आदिश्यते । धातोरिति किम् ? सर्पिाम्, धनुभ्या॑म् ।। २७३ ।
[वि० प०]
इरुरो० । गिरिति । धूर्वतीति क्विप् | "दन्तस्येरगुणे" (३।५।४२) इति गिरतेरिरादेशः । “राल्लोप्यो" (४।१।५८) इति धूर्वतेर्वकारलोपः। 'इरुरोर्दीर्घः' इति सिद्धे यद् ईरूग्रहणं तच्छब्दकार्यप्रतिपत्त्यर्थम् । अन्यथा वर्णकार्ये प्राप्ते नलोपश्चेति नियमेन यिन्नाय्योर्दी? न स्यात् – 'गीर्यति, गीर्यते । धूर्यति, धूर्यते' इति ।।२७३।
[क० च०]
इरुरो०। “हचतुर्थान्तस्य०" (२।३।५०) इत्यवयवित्वेन धातोरित्यनुवर्तते इत्याह - धातोरित्यादि । धातोरिति किम् ? 'सर्पिाम्, धनुभ्या॑म्' इत्यादि । 'सृपेरुस्, धनेरुस्' इति प्रत्ययस्थत्वात्, धातोरवयवत्वाभावात् ।।२७३।