SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४४८ कातन्त्रव्याकरणम् [दु० वृ०] मुहादीनां च लिङ्गानामन्तस्य विरामे व्यञ्जनादिषु च गो भवति वा । मुक्, मुग्भ्याम्, मुक्त्वम् । मुट्, मुड्भ्याम्, मुट्त्वम् । 'मुह्, द्रु, ष्णुह्, ष्णिह्, नश्' एते मुहादयः ।।२७०। [दु० टी०] मुहा० । 'मुह वैचित्त्ये' (३।६७), गृह जिघांसायाम्' । मित्राय द्रुह्यतीति क्विप्मित्रधुक्, मित्रध्रुग्भ्याम् । 'णुह् उगिरणे' (३।३९)- स्नुक्, स्नुग्भ्याम् । ष्णिह् प्रीती (३।४०)-स्निक्, स्निग्भ्याम् । 'नश (णश) अदर्शने (३।४१)-जीवनक्, जीवनग्भ्याम् । सम्पदादित्वात् क्विप् । मुहादिसमाप्त्यर्थं गणे वृच्छब्दः पठ्यते ।।२७०। [क० च०] मुहा० । ननु "दादेर्हस्य गः" (२।३।४७) इत्यत्रादिग्रहणादेव मित्रधुगिति साधितम्, किमत्र विकल्पार्थम् अन्यथा 'मित्रध्रुट् ' इति न सिध्यति । यद्येवं तत्रादिग्रहणं व्यर्थमिति चेत्, नैवम् । इनन्तस्य द्रुहधातोर्मुहादित्वाभावाद् आदिना प्राप्तौ सत्याम् आदिग्रहणव्याप्त्या 'मित्रध्रुग्' इति सिद्धम् । अथ एकदेशविकृतस्यानन्यवद्भावाद् इनन्तस्यापि मुहादित्वात् 'मित्रधुम्' इति भविष्यति चेत्, अन्यत्र प्रयोजनमेतदपि विषयीकरोतीत्युक्तम् । यद् वा आदिग्रहणस्य फलं यद् ‘मित्रध्रुग्' इति प्रदत्तं तत्तु मित्रस्य हूँ वृक्षं जहातीति क्विबन्तात् "तमाचष्टे" इतीनि कृते क्विपि रूपमिति बोध्यम् ।।२७०। [समीक्षा] 'मुह् + सि, मुह + भ्याम्, मुह + त्वम्' इस अवस्था में कातन्त्रकार हकार को वैकल्पिक गकारादेश करके 'मुक् - मुट् । मुग्भ्याम् - मुड्भ्याम् । मुक्त्वम् – मुट्त्वम् ' शब्दरूप सिद्ध करते हैं । गकारादेश के अभाव में ह को ड् होता है | पाणिनि ने "वा दुहमुहष्णुहष्णिहाम्" (अ० ८।२।२३) से वैकल्पिक पकारादेश करके इन रूपों को निष्पन्न किया है । अतः प्रक्रिया की दृष्टि से उभयत्र साम्य ही कहा जा सकता है।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy