________________
४४३
नामचतुष्टयाभ्याये तृतीयो युमत्पादः [दु० वृ०]
लिङ्गस्य हस्य दादेविरामे व्यञ्जनादिषु च गो भवति । गोधुक्, गोधुग्भ्याम्, गोधुक्तमः ।।२६८।
[दु० टी०]
दादे० । द एवादिर्यस्येति विग्रहे लिङ्गस्य दादेर्न स्यात् । दामलिट्, दामलिड्भ्याम् । अनन्तरो दकारो नास्तीत्येकवर्णव्यवहितो गृह्यते । गां दोग्धीति क्विप् । एवं काष्ठं दहतीति काष्ठधक्, काष्ठधग्भ्याम् । कथं मित्रध्रुक्, मित्रध्रुग्भ्याम् ? एकेन वर्णेन व्यवधानमाश्रीयते, न त्वनेकेनेति वचनात् । नैवम्, तदा दादिति विदध्यात् । दात् परस्येति गम्यत एव वचनात् । तस्मादादिशब्दः समीपमभिदधद् अपेक्षया व्यवहितं व्यवच्छिनत्तीति । अथवा लिङ्गस्य इत्यवयवावयविसंबन्धे षष्ठी । लिङ्गस्यावयवो दादिन्ति इति । कथं ध्रुक्, ध्रुग्भ्याम् । व्यपदेशिवद्भावाद् भविष्यति । दामलिट्, दामलिड्भ्यामिति । नात्र व्यपदेशिवद्भावप्रतीतिः, अतिव्यवहितत्वात् । न ह्यधातोर्दादिर्हकारः संभवतीत्याह - लिङ्गस्य हस्य दादेरिति । केचिद् धातोरिति सिंहावलोकितमधिकारमिच्छन्तीति । यथा सिंहो दूरं गत्वा पश्चादवलोकयति, तद्वद् यः स सिंहावलोकित इति, तथापि विशेषदत्तदृष्टिरिह प्रतिपत्तव्यः, चवर्गादिषु धातोरपि दर्शनात् । तदा दाम लेढीति क्विपि कृते कथं न स्यादिति पूर्ववत् परिहारश्चेत् किं धात्वधिकारेणेति ।।२६८।
[वि० प०]
दादेः । हस्य दादेरिति। द एव आदिर्यस्येति विग्रहः । तेन लिङ्गस्य दादेर्न भवति - दामलिडिति ।गोधुगिति | गां दोग्धीति "सत्सूबिष०"(४।३।७४) इत्यादिना क्विप्, "हचतुर्यान्तस्य" (२।३।५०) इत्यादिना दस्य धत्वम् । इहोकारव्यवधानेऽपि भवति न खल्वव्यवधानेन हकारस्य दादित्वमस्तीति । यद्येवं कथं मित्रध्रुगिति वचनप्रामाण्यादेकवर्णव्यवधानमाश्रीयते न त्वनेकेनेति । नैवम्, एवं सति दादिति विदध्यात् । वचनादेकवर्णव्यवधानेऽपि भविष्यति किमादिग्रहणेन ? तस्माद् आदिग्रहणबलाद् वर्णान्तरातिरेकेणापि भवतीत्यदोषः । गोधुक्तम इति । अयमेषां प्रकृष्टो गोधुक् इति । “आख्याताच्च तमादयः" (२।६।४०) इति तमपत्ययः ।।२६८।